SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ तस्वन्यायविमाकरे [नवमाकिस्मे परमैश्वर्यप्रवृत्तिविशिष्ट इन्द्रशब्दवाच्या, सामर्थ्यक्रियाविशिष्टश्शक्रप. दबोध्यः, असुरपुरभेदनक्रियाविशिष्टः पुरन्दरशब्दवाच्य इत्येवंरूपाभिप्रायाः ॥ तत्तक्रियेति । जलाहरणादिक्रियाविधुरस्यार्थस्य घटादेस्तत्तच्छन्दवाच्यत्वं घटादिश5 ब्दवाच्यत्वमप्रतिक्षिपन् द्वेषबुद्ध्याऽनिराकुर्वन् जलाहरणादिक्रियाविशिष्टमेव घटादिकं घटादिशब्दो वतीत्येवंरूपोऽभिप्राय एवम्भूतनय इति भावः । तथा च पदानां व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वाभ्युपगन्तृत्वमिति निष्कर्षः । नियमश्च देशतः कालतश्चातो न समभिरूढादावतिव्याप्तिः। या क्रिया विशिष्टशब्देनोच्यते तामेव क्रियां कुर्वद्वस्तु एवंभूतशब्देनो. च्यते तत्प्रतिपादको नयोऽप्युपचारादेवम्भूतः, अयं व्यञ्जनार्थोभयं स्थापयति, शब्दं अर्थे10 नार्थश्च शब्देनेति, यथा घटचेष्टायां घटते योषिन्मस्तकाद्यारूढश्चेष्टत इति घट इत्यत्र तदैवासी घटो यदा तादृशचेष्टावान् नान्यदा, घटशब्दोऽपि तादृशचेष्टाकारिण एव वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन निवय॑ते घटशब्दस्यापि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यते, तथा च प्रयोगो यथाऽभिधायकइशब्दस्तथैवाभिधेयं प्रतिपत्तव्यं, तथाभूतार्थस्यैव प्रत्ययसम्भूतेः प्रदीपवत्कुम्भवद्वा, प्रदीपशब्देन हि प्रकाशवानेवा15 थर्थोऽभिधीयते, अन्यथा संशयादयः प्रसज्येरन् तथाहि यदि दीपनक्रियाविकलोऽपि दीपस्तर्हि दीपशब्दे समुच्चरिते किमनेन प्रदीपेन प्रकाशवानर्थोऽभिहितः किंवाऽप्रकाशकोऽप्यन्धोपलाविरिति संशयः, अन्धोपलादिरेवानेनाभिहितो न दीप इति विपर्ययः, तथा दीप इत्युक्तेऽन्धो. पलादौ चोक्ते दीपे प्रत्ययात्पदार्थानामेकत्वं साङ्कर्य वा स्यात्तस्माच्छन्दवशादेवाभिधेयमभि धेयवशाच शब्द इति । एवञ्च संज्ञाभेदाद्वस्तुभेदवत् क्रियाभेदादपि, सा च क्रिया तनेत्री 20 यदैव तामाविशति तदैतन्निमित्तं तत्तद्वयपदेशमासादयति नान्यदाऽतिप्रसङ्गात् । यदा घटते तदेवासो घटो न पुनर्घटितवान् घटिष्यते वा घट इति व्यपदेष्टुं युक्तः, सर्ववस्तूनां घटता. पत्तिप्रसङ्गात् किञ्च चेष्टासमये एव वस्तु चक्षुरादिव्यापारसमुद्भूतशब्दानुविद्धप्रत्ययमास्कन्दति, चेष्टावन्तः पदार्था इति, यथावस्थितार्थप्रतिभास एव च वस्तूनां व्यवस्थापको नान्यथाभूतोऽ. न्यथा चेष्टावत्तया शब्दानुविद्धाध्यक्षप्रत्यये प्रतिभासस्याभ्युपगमे तत्प्रत्ययस्य निर्विषयतया १. योऽर्थो यद्देशे यत्काले व्युत्पत्त्यर्थेन सम्बद्धः सोऽर्थस्तत्र तदानीं तच्छन्दबोध्यः, तथा चायं नयो यस्मिन्नर्थे शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तभूतोऽर्थो यदैव वर्तते तदैव तं शब्दं प्रवर्त्तमानमभिति, नातीतां भाविनी वा चेष्टामधिकृत्य सामान्येनैवोच्यते शब्दः, तयोविनष्टानुत्पन्नत्वेन कूर्मरोमकल्पस्वात् यद्यतीतभाविचेष्टापेक्षया घटादिशब्दोऽचेष्टावस्यपि प्रयुज्येत तर्हि कपालमृत्पिण्डादावपि प्रयुज्यतां विशेषाभावात्तस्माद्यत्र क्षणे व्युत्पत्तिनिमित्तमविकलमस्ति तदैव सोऽर्थस्तच्छब्देन वाच्य इति निर्गलितार्थः ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy