SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ शब्दार्यन्याः ] न्यायप्रकाशसमलते भ्रान्तस्यापि वस्तुव्यवस्थापकत्वे सर्वः प्रत्ययः सर्वस्यार्थस्य व्यवस्थापकः स्यादित्यतिप्रसङ्गः, तन्न घटनसमयात्प्राक् पश्चाद्वा घटस्तव्यपदेशमासादयतीत्येवम्भूतनयमतम् । नन्वेतन्मते न्युत्पत्तिनिमित्तस्यैव प्रवृत्तिनिमित्तत्वेन केनचिद्रूपेणास्यानतिप्रसक्तत्वं वाच्यम् , इतरथा गच्छतीति गौरिति व्युत्पत्त्या गच्छन्नश्वादिरपि गौः स्यात् , मैवम् प्रसिद्धार्थपुरस्कारेण प्रवृत्तस्यैवंभूतनयस्य स्वार्थातिप्रसङ्गो न दूषणं किन्तु तन्निवारकनयान्तरोपायकत्वे. 5 न भूषणमेव, एतदुपजीवी व्यवहारस्तु यथावृत्ति, एतेन राजनशब्दस्य छत्रचामरादिशोभाविरहकाले राजपदव्युत्पत्तिनिमित्ताभावेऽपि इतरातिशयपुण्यादिप्रयुक्तराजनस्यामतिप्रसक्तस्य सत्त्वेन राजा वाच्य एवेति व्युदस्तम् । एवम्भूतनयस्योदाहरणमाह यथेति, समभिरूढो हि सत्यामसत्याश्चन्दनक्रियायां वासवादेरर्थस्येन्द्रादिव्यपदेशमभिप्रेति क्रियोपलक्षितसामान्यस्यैव प्रवृत्तिनिमित्तत्वात् , पशुविशेषस्य गमनक्रियायां सत्यामसत्याच गोव्यपदेश- 10 वत् तथारूढेस्सद्भावात् । एवम्भूतः पुनरिन्दनादिक्रियापरिगतमर्थ तत्तत्क्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते, नहि कश्चिदक्रियशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामापि क्रियाशब्दत्वात् गच्छतीति गौराशुगामित्वादश्व इति, शुक्लो नील इत्यादिगुणशब्दाभिमता अपि क्रियाशब्दा एव, शुचीभवनाच्छुक्लो नीलनानील इति, देवदत्तो यज्ञदत्त इत्यादियादृच्छिकशब्दाभिमता अपि क्रियाशब्दा एव देव एनं देयायज्ञ एनं देया- 15 दिति । संयोगिद्रव्यबाचकशब्दास्समवायिद्रव्यवाचकशब्दा अपि क्रियाशब्दा एव दण्डोऽस्यास्तीति दण्डी विषाणमस्यास्तीति विषाणीत्यादिक्रियाप्रधानत्वादिति । एवमेतन्मते सत्त्वादियोगात्सदादिसंश्यपि तत्तत्पर्यायभाक्त्वेनात्मादिसंज्ञाधार्यपि सिद्धो न जीवः, जीवप्राणधारण इति धात्वर्थानन्वयात् । एतेन सिद्धो निश्चयतो जीव इति मतमपास्तम् , शुद्धनिश्चयो ह्येवम्भूतनय एव, तन्मतेन तु सिद्धोऽजीव इत्येव प्रसिद्धिः, औदयिक भावं व्युत्पत्तिनिमि- 20 तमेव प्रवृत्तिनिमित्ततया गृह्णता संसारिण एव जीवशब्दव्यपदेश्यत्वप्रतिपादनात् सिद्धस्य पुद्गलादिद्रव्यस्य वाऽजीवपदार्थत्वस्येष्यमाणत्वादिति ॥ नयानाममीषां सप्तविधानां मध्ये के पुनरर्थप्रधानाः के च शब्दप्रधाना इत्याशङ्कायामाह तत्राद्याश्चत्वारो नया अर्थनया अर्थप्रधानत्वात् । अन्त्यास्तु शब्दनयाः शब्दवाच्यार्थविषयत्वात् ॥ १. औदयिकक्षायिकक्षायोपशमिकपारिणामिकलक्षणः पञ्चभिर्भावैः पञ्चस्वपि गतिषु जीव इष्टः, व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षितात्मत्वरूपपारिणामिकभावविशिष्टस्य जीवस्य भावपञ्चकात्मनो जीवपदार्थत्वात प्रसिद्धनगम ईदृशपारिणामिकभावमेव जीवपदप्रवृत्तिनिमित्तमभ्युपगच्छति, एवम्भूतस्तु व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तं गृह्णाति इति भावः ॥ . 25
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy