________________
तस्वन्यायविभाकरे,
[मवमकिरणे तत्राद्याश्चत्वार इति । अर्थतंत्रत्वान्नैगमसंग्रहव्यवहारर्जुसूत्रा अर्थनया उच्यन्ते, ऋजुसूत्रान्ता हि नया प्रधानभूतमर्थ शब्दश्चाप्रधानं ब्रुवते । अन्त्यास्त्रयस्त्विति, शब्दसमभिरूडैवम्भूतात्रयस्त्वित्यर्थः, अर्थोपसर्जनाश्शब्दप्रधानाः अतश्शब्दनया उच्यन्त इति भावः ।
अत्रैवमर्थनयतात्पर्यमवसेयम्-यद्यपि प्रमाणप्रमेययोनिबन्धनं सामान्यतश्शब्दार्थों भवतः 5 तथापि साक्षात्परम्परया वा प्रमाणस्य कारणमेव स्वाकारार्पको विषयः, न शब्दः 'नाननुकृतान्वयव्यतिरेकं कारणं नाकारणं विषय' इत्यादिवचनात् , तदाकारानुविधायिनी तदध्यवसायेन च तत्राविसंवादात् संवित्प्रमाणत्वेन गीयते, अध्यक्षधीश्वाशब्दमर्थमात्मन्याधत्ते, अन्यथाऽर्थदर्शनप्रच्युतिप्रसङ्गात् , न ह्यध्यक्षगोचरेऽर्थे शब्दास्सन्ति, तदात्मानो
वा, येन तस्मिन् प्रतिभासमानेऽपि नियमेन ते प्रतिभासेरन् इति कथं शब्दसंस्पृष्टाऽ10 क्षधीभवेत् किञ्च वस्तुसन्निधानेऽपि तन्नामानुस्मृति विना तदर्थस्यानुपलब्धाविष्यमाणा
यामर्थसन्निधिरक्षडग्जननं प्रत्यसमर्थ इत्यभिधानस्मृतावुपक्षीणशक्तिकत्वान्न कदाचनापीन्द्रियबुद्धिं जनयेत् सन्निधानाविशेषात् , यदि चायं भवतां निर्बन्धस्स्वाभिधानविशेषणापेक्षमेव चक्षुरादिस्स्वार्थमवगमयतीति तदाऽस्तङ्गतेयमिन्द्रियप्रभवाऽर्थाधिगतिः, तन्नामस्मृत्यादेरसंभवात् , तथाहि यत्रार्थे प्राक् शब्दप्रतिपत्तिरभूत् पुनस्तदर्थवीक्षणे तत्सङ्केतितशब्दस्मृ15 तिर्भवेदिति युक्तियुक्तमन्यथाऽतिप्रसङ्गः स्यात् , न चेदनभिळापमर्थ प्रतिपत्ता पश्यति तदा
तत्र दृष्टमभिलापमपि न स्मरेत् , अस्मरंश्च शब्दविशेषं न तत्र योजयेत् , अयोजयंश्च न तेन विशिष्टमर्थ प्रत्येतीत्यायातमान्ध्यमशेषस्य जगतः । ततः स्वाभिधानरहितस्य विषयस्य विषयिणं चक्षुरादिप्रत्ययं प्रति स्वत एवोपयोगित्वं सिद्धम् , न तु तदभिधानानां तदर्थ
सम्बन्धरहितानां, पारम्पर्येणापि सामर्थ्यासम्भवादिति । शब्दनयस्तु मनुते कारणस्यापि 20 विषयस्य प्रतिपत्तिं प्रति नैव प्रमेयत्वं युक्तम् यावदध्यवसायो न भवेत् , सोऽप्यध्यव
सायो विकल्पश्चेत् तदभिधानस्मृति विना नोत्पत्तुं युक्त इति सर्वव्यवहारेषु शब्दसम्बन्धः प्रधानं निबन्धनम् । प्रत्यक्षस्यापि तत्कृताध्यवसायलक्षणविकलस्य बहिरन्तर्वा प्रतिक्षणपरिणामप्रति पत्ताविव प्रमाणतानुपपत्तेः अविसंवादलक्षणत्वात्प्रमाणानाम् । प्रतिक्षणपरि
णामग्रहणेऽपि तस्य प्रामाण्याभ्युपगमे प्रमाणान्तरप्रवृत्तौ यत्नः क्रियमाणोऽपार्थकः स्यात् । 25 ततः प्रमाणव्यवस्थानिबन्धनं तन्नामस्मृतिव्यवसाययोजनमर्थप्राधान्यमपहस्तयतीति शब्द
एव सर्वत्र प्रमाणादिव्यवहारे प्रधानं कारणमिति । ननु नैगमादिनयसप्तकस्यैव प्ररूपणमयुक्तं तदतिरिक्तयोरप्तिानर्पितयोनिश्चयव्यवहारयोर्ज्ञानक्रिययोश्च सत्त्वादिति चेन्मैवम् , अर्पितनयस्य विशेषग्राहित्वेनानर्पितनयस्य च सामान्यग्राहित्वेनोक्तेष्वेवान्तर्भावात् , तत्रान. र्पितनयमते तुल्यमेव रूपं सर्वेषां सिद्धानाम् । अर्पितनयमते त्वेकद्विव्यादिसमयसिद्धाः