________________
विषयविचारः ]
न्यायप्रकाशसमलते खसमानकालसिद्धैरेव तुल्या इति । तथा लोकप्रसिद्धार्थानुवादपरस्य व्यवहारनयस्य तात्त्विकार्थाभ्युपगमपरस्य निश्चयनयस्यापि उक्तेष्वेवान्तर्भावः । यथा पञ्चस्वपि वर्णेषु भ्रमरे सत्सु श्यामो भ्रमर इति व्यवहारः, पञ्चवर्णो भ्रमर इति निश्चयः, तच्छरीरस्य बादरस्कन्धत्वेन पञ्चवर्णपुद्गलैर्निष्पन्नत्वात् , शुक्लादीनाञ्च न्यग्भूतत्वेनानुपलक्षणात् । अथवैकनयमतार्थग्राही व्यवहारः सर्वनयमतार्थग्राही च निश्चयः । न चैवं निश्चयस्य प्रमाणत्वेन 5 नयत्वव्याघातः, सर्वनयमतस्यापि स्वार्थस्य तेन प्राधान्याभ्युपगमात् । तथा ज्ञानमात्रप्राधान्याभ्युपगमपरा ज्ञाननयाः, क्रियामात्रप्राधान्याभ्युपगमपराः क्रियानयाः, तत्रर्जुसूत्रादयश्चत्वारो नयाश्चारित्रलक्षणायाः क्रियाया एव प्राधान्यमभ्युपगच्छन्ति, तस्या एव मोक्षं प्रत्यव्यवहितकारणत्वात् । नैगमसमन्हव्यवहारास्तु यद्यपि चारित्रश्रुतसम्यक्त्वानां त्रयाणामपि मोक्षकारणत्वमिच्छन्ति तथापि व्यस्तानामेव नतु समस्तानाम् , एतन्मते ज्ञानादित्रयादेव 10 मोक्ष इत्यनियमात् , अन्यथा नयत्वहानिप्रसङ्गात् समुदायवादस्य स्थितपक्षत्वादिति द्रष्टव्यम्।
नन्वेषु .. नयेषु सर्वेषां समानविषयत्वमुत न्यूनाधिकविषयत्वं वेत्यत्र शुद्धाशुद्धत्वाभिप्रायत आह
नैगमो भावाभावविषयकः सङ्ग्रहस्सर्वभावविषयकः, व्यवहारः कालत्रयवृत्तिकतिपयभावप्रकारप्रख्यापकः, वर्तमानक्षणमात्रस्थायिप- 15 दार्थविषय ऋजुसूत्रः, कालादिभेदेन भिन्नार्थविषयश्शब्दनयः, व्युत्पत्तिभेदेन पर्यायशब्दानां भिन्नार्थतासमर्थनपरस्समभिरूढः, क्रियाभेदेन विभिन्नार्थतानिरूपणपर एवम्भूतनय इत्युत्तरोत्तरनयापेक्षया पूर्वपूर्वनयस्य महाविषयत्वं बोध्यम् ॥
नैगम इति । भावाभावभूमिकत्वासङ्ग्रहापेक्षया नैगमो बहुविषय इति भावः, सद्वि- 20 शेषप्रकाशकव्यवहारापेक्षया समस्तसत्समूहोपदर्शकस्य सङ्घहस्य बहुविषयत्वमित्याह सङ्ग्रह इति । वर्तमानविषयावलम्बिन ऋजुसूत्रात्कालत्रयवर्त्यर्थजातावलम्बिनो व्यवहारस्य बहुविषयत्वमित्याह व्यवहार इति, कालादिभेदेन भिन्नार्थोपदेशकशब्दापेक्षया तद्विपरीतवेदकः ऋजुसूत्रो भूमविषय इत्यत्राह वर्तमानेति, न केवलं कालादिभेदेनैवर्जुसूत्रादल्पार्थता शब्दस्य, किन्तु नामादितोऽपि, शब्दो हि नामस्थापनाद्रव्यभावरूपचतुर्विधनिक्षेपेषु भावघट- 25 मेव व्यवहर्त्तव्यं मन्यते शब्दार्थप्रधानतया तस्यैव जलाहरणादिक्रियाक्षमत्वात् , यद्वा सप्तधर्मार्पणादस्य विशेषः, ऋजुसूत्रस्य हि प्रत्युत्पन्नोऽविशेषित एव घटोऽभिप्रेतः, शब्दनयस्तु