________________
तत्त्वन्यायविभाकरे
[ नवमकिरणे म्भोरुहादिविशिष्टवस्तुसाध्यव्यवहारास्ते सर्वेऽपि प्रलयमापोरन अतो विशेषा अपि विविक्तव्यवहारहेतवोऽभ्युपगन्तव्याः मैवम् , व्यवहारस्याप्यनाद्यविद्याबलप्रवर्तितत्वात् तेन पारमार्थिकप्रमाणप्रतिष्ठिततत्त्वप्रतिबन्धाभावात् किश्च विशेषाग्रहो विशेषेण त्याज्या, विशेषव्यवस्थापकप्रमाणाभावात् तथाहि भेदरूपा विशेषाः, न च किञ्चित्प्रमाणं भेदमवगाहते, 5 प्रत्यक्षं हि तावद्भावसम्पादितसत्ताकं तमेव साक्षात्कतुं युक्तम् नाभावम् , तस्य सकलशक्तिविरहरूपतया तदुत्पादने व्यापाराभावात् , अनुत्पादकस्य साक्षात्कारकरणे सर्वसाक्षाकरणप्रसङ्गात् तथा च विशेषाभावात्सो द्रष्टा सर्वदर्शी स्यात् अनिष्टश्चतत् तस्माद्भावग्राहकमेव तदिष्टम् , स च भावस्सर्वत्राविशिष्ट इति तथैव तेन ग्राह्यः, तदुत्तरकालभावि
विकल्पो घटोऽयं पटादिर्न भवतीत्येवमाकारं रचयन्नविद्यामूलत्वान्न प्रमाणं तन्न प्रत्यक्षा10 द्विशेषावगतिः, नाप्यनुमानादिभ्यः, प्रत्यक्षमूलकत्वाच्छेषप्रमाणवर्गस्य, तस्मात्सामान्यमेव
परमार्थो न विशेषा इति सङ्ग्रहः । तं विभजते स इति, परसङ्ग्रहमाह परसामान्यमिति सन्मात्रमित्यर्थः, तद्विशेषेष्विति सत्त्वावान्तरप्रभेदेष्वित्यर्थः, उदाहरति यथेति, एवमुक्त हि सदिति ज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषार्थानां सङ्गृह्यत इत्यभि
प्रायमाहानेनेति, सन्ति विशेषा इत्यनुक्तत्वाद्विशेषेषूदासीनता व्यज्यत इत्याहैवं शब्दाना15 मिति, उदासीनतेति, प्रत्यनीकधर्मेषूपेक्षेत्यर्थः, धर्मान्तरादानीपेक्षाहानिलक्षणत्वात्प्रमाण
नय दुर्नयानां, प्रमाणात्तदतत्स्वभावप्रतिपत्तेर्नयात्तत्प्रतिपत्तेर्दुनयादन्यनिराकृतेश्चेति भावः । अथ द्वितीयभेदमाहापरेति, द्रव्यत्वादीन्यपरसामान्यानीति भावः, सत्तापेक्षया कतिपयव्यक्तिनिष्ठत्वा व्यत्वस्यापरसामान्यत्वं बोध्यम्, तथाभिप्राय इति, स्वव्याप्यावान्तरविषयकोपेक्षासहकृततदर्थैकत्वग्रहणाभिप्राय इत्यर्थः, अवान्तरविषयप्रतिक्षेपाभिप्रायत्वे दुर्नयत्वप्रसक्तेः । दृष्टान्तमस्याह यथेति, द्रव्यं द्रव्यमित्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वा. त्मकत्वेन धर्मादीनां षण्णामैक्यं सङ्गह्यत इत्यभिप्रायेणाहानेनेति, गौणव्यवहारास्तत्तद्व्यावृत्तिरूपविशेषाश्च नैगमव्यवहारयोरिष्टाः, एतदुभयापेक्षया स्वविषयोत्कर्षाभिमानिना सङ्ग्रहेण तु ते नेष्यन्ते तथा च नैगमव्यवहारसम्मतोपचारविशेषानवलम्बित्वादस्य शुद्धत्वं, स्वसमयोचितोपचारविशेषयोः क्वचिदवलम्बनेनापि तन्नापोद्यत इति ध्येयम् ॥
१. ननु सामान्यमेव प्रमाणप्रतिष्ठं न विशेषा इति न युक्तं विनिगमनाविरहेण वैपरीत्यस्यापि वक्तुं शक्यत्वादित्याशङ्कायां दोषान्तरमाह किञ्चेति ॥ २. भावेन सहैव योग्यत्वादिन्द्रियस्य सम्बन्धादिति भावः । भेदस्याभावात्मकस्यायोग्यत्वेन विषयमुद्रया कारणत्वासम्भवेनानुत्पादकत्वं तथापि तस्येन्द्रियेण प्रत्यक्षत्वाभ्युपगमे सर्वेषामपीन्द्रियेण ग्रहणं स्यात् , यद्वा वस्तुतोऽभावग्रहणेऽयोग्यतयाऽनुत्पादकेनेन्द्रियेण तज्ज्ञानं जायत इत्यभ्युपगमे सर्वेषामपि तेन ग्रहणं स्यादित्याशयेनाहानुत्पादकस्येति ॥