________________
सङ्ग्रहः ] न्यायप्रकाशसमलङ्कते
: ४८५ : मभ्युपगतं जगतः, तत्रापि सेश्वरनिरीश्वरभेदोऽभ्युपगतः, सेश्वरपक्षेऽपि कर्मसापेक्षत्वानपेक्षत्वाभ्यां भेदाभ्युपगमः, कैश्चित्स्वभावकालयादृच्छिकवादाः समाश्रिताः, तेष्वपि सापेक्षत्वानपेक्षत्वाभ्युपगमाद्भेदव्यवस्थाऽभ्युपगतैव । तथा कारणं नित्यं कार्यमनित्यमित्यपि द्वैतं कैश्चिदभ्युपगतं तत्रापि कार्य स्वरूपं नियमेन त्यजति नवेत्ययमपि भेदाभ्युपगमः, एवम्भूतैरेव मूर्त्तमारभ्यते, मूत्रमूर्त, अमूर्त्तर्मूर्त्तमित्याद्यनेकधा प्रतिपत्रभिप्रायतोऽनेकधा निगम- 5 नान्नैगमोऽनेकभेद इति ॥
अथ सङ्ग्रहं लक्षयतिस्वव्याप्ययावद्विशेषेष्वौदासीन्यपूर्वकं सामान्यविषयकाभिप्रायविशेषस्सङ्ग्रहः । स द्विविधः परापरभेदात् । परसामान्यमवलम्ब्य विधायौदासीन्यं तद्विशेषेषु अर्थानामेकतया ग्रहणाभिप्रायः परसङ्ग्रहः। यथा 10 विश्वमेकं सदविशेषादिति । अनेन वनभिप्रायेण सत्त्वरूपसामान्येन विश्वस्यैकत्वं गृह्यते, एवं शब्दानामप्रयोगाच विशेषेषूदासीनता प्रतीयते। अपरसामान्यमवलम्ब्य तथाभिप्रायोऽपरसङ्ग्रहः । यथा धर्माधर्माकाशपुद्गलजीवानामैक्यं, द्रव्यत्वाविशेषादिति । अनेनाप्यभिप्राय विशेषेण द्रव्यत्वरूपापरसामान्येन धर्मादीनामेकत्वं तद्विशेषेषूदासी- 15 नत्वञ्च गृह्यते ॥ ___ स्वव्याप्येति । स्वं महासामान्यं सत्त्वं तद्व्याप्या यावन्तो विशेषाः द्रव्यत्वादयः तेष्वौदासीन्यपूर्वकं परस्परं ताननिराकुर्वन् सत्तारूपसामान्यविषयको द्रव्यत्वादिरूपसामान्यविषयको वाऽभिप्रायविशेषस्स सङ्ग्रह इत्यर्थः । सामान्यमात्राभ्युपगमप्रवणैकदेशबोधत्वं लक्षणम् । परापरसामान्योभयग्राहित्वन्तु न लक्षणं प्रत्येकग्राहिण्यव्याप्तेः प्रत्येकग्राहित्वमपि 20 न लक्षणमननुगमात् , अयं हि सङ्ग्रहो मन्यते ननु भावलक्षणसामान्याव्यतिरिच्यमानमूर्तयो विशेषा अव्यतिरिच्यमाना वा, नाद्यः पक्षो निःस्वभावतापत्तेः, भावव्यतिरेकित्वात् , गगनारविन्दवत । न द्वितीयो भावमात्रत्वापत्तेः, तथा हि भावमात्रं विशेषास्तभिन्नत्वात् यद्यतोऽभिन्नं तत्तदेव, यथा भावस्यैव स्वरूपम् , अभिन्नाश्च विशेषा अतस्तद्रूपा एव । ननु च यदि भावमात्रमेव तत्त्वं तदा तस्य सर्वत्राविशेषाद्य एते प्रतिप्राणि प्रसिद्धा स्तम्भेभकुम्भा- 25
१. सङ्ग्रहमतेनाशेषविशेषतिरोधानप्रकारमादर्शयति नन्विति । २. भिन्नत्वे भावलक्षणतो विशेषाणां स तस्यैवेत्यत्र नियामकाभावेन भावस्वभावशून्यत्वान्निःस्वभावत्वं स्यादित्याशयेनाह भावव्यतिरेकित्वादिति ॥