________________
:४८४: तत्त्वन्यायविभाकरे
[ नवमकिरणे काठिन्यवदिति । द्रव्ययोर्मुख्यामुख्यभावेन विवक्षणे उदाहरणमिदम् , तत्सङ्गमयति, पृथिवीति, विशेष्यविशेषणभावे विनिगमनाविरहेण काठिन्यवद्र्व्यं पृथिव्यास्त इति विवक्षायां गौणमुख्यभावः प्रतिपादितः, यदा तु पृथिवी काठिन्यवद्रव्यं वर्तत इति विव
क्ष्यते तदाह यद्वेति, अपरमुदाहरणमाहैवमिति, रूपवद्र्व्यं मूत्तं वर्तत इति विवक्षणे मूर्त 5 प्रधानं विशेष्यत्वात् रूपवद्र्व्यं गौणः विशेषणत्वात् मूर्त रूपवद्रव्यं वर्तत इति विवक्षायान्तु
रूपवद्रव्यं विशेष्यत्वात्प्रधानं, मूर्त्तमप्रधानं विशेषणत्वादिति, पर्यायवद्रव्यं वस्त्विति विवक्षायां वस्तुनो विशेष्यत्वान्मुख्यता, पर्यायवद्व्यस्य विशेषणत्वाद्गौणता, वस्तु पर्यायवद्व्यमित्यत्र तु वस्तुनो विशेषणत्वाद्गौणता, पर्यायवद्रव्यस्य च विशेष्यत्वात्प्रधानता बोध्येति भावः॥
धर्मधर्म्युभयविषयकविवक्षणे दृष्टान्तयति10 रूपवान् घट इत्यत्र तु घटस्य धर्मिणो विशेष्यत्वात्प्रधानता, रूपस्य
धर्मस्य तद्विशेषणत्वाद्गौणता । इत्थं ज्ञानवानात्मा, नित्यसुखी मुक्तः क्षणिकसुखी विषयासक्तजीव इत्यादीनि धर्मधर्म्युभयविषयकविवक्षणे निदर्शनानि ॥
रूपवानिति । सङ्गमयति घटस्येति । दृष्टान्तान्तराण्यहित्थमिति, आत्मनो धर्मिणो 15 विशेष्यत्वात् ज्ञानस्य धर्मस्य विशेषणत्वात् मुक्तस्य धर्मिणो विशेष्यत्वान्नित्यसुखस्य धर्मस्य विशेषणत्वात् धर्मिणो विषयासक्तजीवस्य विशेष्यत्वाद्धर्मस्य क्षणिकसुखस्य विशेषणत्वाप्रधानत्वं गौणत्वञ्च भाव्यम् । न चास्य तृतीयप्रकारस्य प्रमाणत्वं शङ्कयम् , धर्मधर्मिणोः प्राधान्येनात्र ज्ञप्तेरभावात् तयोरन्यतर एव हि नैगमनयेन प्रधानतयाऽनुभूयते प्राधान्येन
तदुभयावगाहिन एव ज्ञानस्य प्रमाणत्वात् । स पुन.गमोऽनेकधा व्यवस्थितः प्रतिपत्रभिप्रा20 यवशान्नयव्यवस्थानात् , यथा पुरुष एवेदं सर्वमिति, पुरुषोऽप्येकत्वनानात्वभेदात्कैश्चिदभ्यु
पगतो द्वेधा, नानात्वेऽपि तस्य कर्तृत्वाकर्तृत्वभेदो परैराश्रितः, कर्त्तत्वेऽपि सर्वगतेतरभेदः, असर्वगतत्वेऽपि शरीरव्याप्यव्यापिभ्यां भेदः अव्यापित्वेऽपि मूर्त्ततरभेदः, अपरैस्तु प्रधानकारणिकं जगदभ्युपगतम् तत्रापि सेश्वरनिरीश्वरभेदोऽभ्युपगतः, अन्यैस्तु परमाणुप्रभवत्व
१. नयेऽत्र हि प्रधानोपसर्जनभावस्य विशेष्यविशेषणभावप्रयुक्तत्वं न तु कल्पनाप्रयुक्तत्वं, न चैतावता प्रामाण्यप्रसङ्गः, धर्मधर्मिणोः प्राधान्येनाबोधकत्वात् , नैगमो हि तयोरन्यतरस्यैव प्रधानत्वमभ्युपैति । प्रधानतया तु तदुभयात्मकं वस्त्वनुभवद्विज्ञानं प्रमाणमेव, न चात्र नये विशेषणं कल्पितमेवेति वाच्यम् , पर्यायार्थिक एव द्रव्यस्य कल्पितस्य विशेषणत्वात् द्रव्यार्थिके तु पर्यायस्याकल्पितस्यापि विशेषणत्वात् , उभयविषयकेण नैगमेनोभयविषयस्य सत्यताया एवाभिमानादिति ॥