________________
नैगम! ]
म्यायप्रकाशसमलङ्कृते
: ४८३ :
विवक्षणं नैगमनयः । यथा पर्वते पर्वतीयवह्निरिति । अत्र वह्नथात्मको धर्मः प्रधानं विशेष्यत्वात्, पर्वतीयत्वरूपव्यञ्जनपर्यायो गौणो वह्निविशेषणत्वात्, एवमनित्यज्ञानमात्मनः घटे नीलं रूपमित्यादयो धर्मद्वयविषयकदृष्टान्ता भाव्याः ॥
तत्रेति । सप्तसु नयेषु मध्य इत्यर्थः । निगम्यन्ते परिच्छिद्यन्तेऽर्था इति निगमाः, 5 तत्र भवो योऽभिप्रायो नियतपरिच्छेदरूपस्स नैगमः, अर्थाश्रयेणोत्पत्तिमत्वमिति भावः । अर्थश्व लोकप्रसिद्धः, व्यवहाराश्च सामान्याश्रया अन्यथाऽनुगतबुद्ध्यभावः स्यात् विशेषाश्रयाः, तदभावे व्यावृत्तिबुद्ध्यभावप्रसङ्गादित्येवंविधाः, तथा च तल्लक्षणमाह गौणेति, मुख्यामुख्यतया धर्मद्वयस्य पर्याययोः, धर्मिद्वयस्य द्रव्ययोर्धर्मधयुभयस्य पर्यायद्रव्ययोश्च विवक्षणमित्यर्थः, ननु स्वतंत्रतया सामान्यविशेषोपगमे दुर्नयत्वं काणादवत्स्यात् । शबलतया तदभ्यु- 10 पगमे च प्रमाणत्वमेव यथास्थानं प्रत्येकं गौणमुख्यभावेन मूलोक्तरीत्याऽभ्युपगमे च सङ्ग्रह - व्यवहारान्यतरप्रवेशः स्यादिति चेन्न, तृतीयपक्षाश्रयणे दोषाभावात् क्वचित्सङ्ग्रह व्यवहारविषयत्वेऽपि क्वचिदेकस्य सत उभयग्रहणोपयोगव्यावृत्तत्वेन तदतिरेकात्, अत एव नयद्वयसंयोगेन नान्यथासिद्धिः प्रत्येकविषयताद्वयातिरिक्तस्वतंत्रविषयताकत्वादस्य, तथा च गौणमुख्यभावेन सामान्यविशेषोभयस्वीकर्त्तृजातीयैकदेशबोधत्वं नैगमस्य लक्षणम् । अयन नय: - 15 सत्तालक्षणं महासामान्यं द्रव्यत्वादीन्यवान्तरसामान्यानि तथाऽन्त्यान् विशेषान् सकलासाधारणरूपलक्षणानवान्तरविशेषानपेक्षया परस्परव्यावर्त्तनक्षमान् सामान्यादत्यन्तविनिर्लुठितस्वरूपानभिप्रैति । क्रमेणा मुमुदाहरति यथेति व्यञ्जनपर्याययोर्मुख्यामुख्यतया विवक्षणे उदाहरणमिदम्, तदेव सङ्गमयति अत्रेति, उदाहरणेऽस्मिन्नित्यर्थः, दृष्टान्तान्तराण्याहैवमिति, अत्र ज्ञानं प्रधानं विशेष्यत्वात्, अनित्यत्वमप्रधानं विशेषणत्वात् । रूपं प्रधानं विशेष्यत्वात् 20 नैल्यमप्रधानं विशेषणत्वादिति क्रमेण मुख्यामुख्यभावो विज्ञेयः ॥
धर्मिद्वयविषयकमुदाहरति
काठिन्यवद्रव्यं पृथिवीत्यादौ पृथिवीरूपधर्मिणो विशेष्यत्वान्मुख्यत्वं काठिन्यवद्रव्यस्य विशेषणत्वाद्गौणत्वम् यद्वा काठिन्यवद्रव्यस्य विशेष्यत्वान्मुख्यता, पृथिव्या विशेषणत्वाद्गौणता । एवं रूपवद्द्रव्यं मूर्त्त, पर्या- 25 यवद्द्रव्यं वस्त्वित्यादीनि धर्मिद्वयविषयकविवक्षणे उदाहरणानि ॥