________________
:४८२: तत्वन्यायविभाकरे
[ मवमकिरणे नोक्तः । निर्गमयति अत इति । अत्र द्रव्यार्थिकनयस्य त्रैविध्योक्तिर्वादिसिद्धसेनदेवसूरिमतानुसार्यभिप्रायेण, जिनभद्रगणिक्षमाश्रमणवचनानुसारिणामभिप्रायेण त्वाद्याश्चत्वारो द्रव्यार्थिकनया बोध्याः, तत्र द्रव्यमृजुसूत्रो यदि नाभ्युपेयात्तदा " उजुसुयस्स एगे अणुवउत्ते एगं
दव्वावस्सयं पुहुत्तं णेच्छइ” इति सूत्रं विरुध्येतेति क्षमाश्रमणानुयायिनामभिप्रायः । तार्कि5 कानुसारिणस्तु अतीतानागतपरकीयभेदपृथक्त्वपरित्यागाहजुसूत्रेण स्वकार्यसाधकत्वेन स्व
कीयवर्तमानवस्तुन एवोपगमानास्य तुल्यांशध्रौव्यांशलक्षणद्रव्याभ्युपगमः, अत एव नास्यासद्धटिवभूतभाविपर्यायकारणत्वरूपद्रव्यत्वाभ्युपगमोऽपि, अध्रुवधर्माधारांशद्रव्यमपि नास्य विषयः, शब्दनयेष्वतिप्रसङ्गात् , उक्तसूत्रन्तु अनुपयोगांशमादाय वर्तमानावश्यकपर्याये
द्रव्यपदोपचारास्समाधेयम् , पर्यायार्थिकेन मुख्यद्रव्यपदार्थस्यैव प्रतिक्षेपादिति वदन्ति । 10 अत्र द्रव्यास्तिको द्विविधः शुद्धाशुद्धभेदात्, सङ्ग्रहनयाभिमतविषयप्ररूपकश्शुद्धो द्रव्या
र्थिकः, सङ्ग्रहनयाभिप्रायतः प्ररूपणाविषयस्य सर्वत्र भावमात्रत्वात् भेदप्रतिभासस्तु भेदप्रतिपादकागमोपहतान्तःकरणानां तिमिरोपप्लुतदृशामेकशशलाञ्छनमण्डलस्यानेकत्वावभासवदसमेवेति । व्यवहारनयमतावलम्बी द्रव्यार्थिकोऽशुद्धो हेयोपादेयोपेक्षणीयवस्तुविषयनिवृत्तिप्रवृत्त्युपेक्षालक्षणा हि व्यवहाराः, तत्र परस्परं विभिन्नस्वभावा भावास्सद्रूपतया समु15 लसन्ति, असद्रूपत्वे तादृशव्यवहारा एव न भवेयुः, न ह्येकान्ततः सन्मात्राविशिष्टेषु सङ्ग्र
हाभिमतेषु पृथक्स्वरूपतया परिच्छेदो बाधितरूपो व्यवहारनिबन्धनस्सम्भवतीत्यतो व्यवहारो नानारूपतया सत्तां व्यवस्थापयतीत्यशुद्धा द्रव्यार्थिकप्रकृतिः। नैगमनयाभिप्रायस्तु शुद्धाशुद्धरूपराश्यन्तरेण न वाच्यः क्वचिदपि तथानभिधानात् , सामान्यग्राहिणो
नैगमस्य सङ्ग्रहे विशेषग्राहिणश्च व्यवहारेऽन्तर्भूतत्वात् पर्यायस्याद्या प्रकृतिः ऋजुसूत्रो 20 नित्याशुद्धः, शब्दश्शुद्धः, समभिरूढः शुद्धतरः, एवम्भूतस्तु शुद्धतम इति ॥
सम्प्रति नैगमस्वरूपमाहतत्र गौणमुख्यभावेन धर्मद्वयमिद्वयधर्मधर्म्युभयान्यतमविषयक
१. तथा च परस्परविविक्तसामान्यविशेषविषयत्वाद् द्रव्यपर्यायार्थिकावेव नयौ न च तृतीयं प्रकारान्तरमस्ति यद्विषयोऽन्यस्ताभ्यां व्यतिरिक्तो नयः स्यात् तद्भेदा एव नैगमादयः । न च द्रव्यपर्याययोस्सम्बन्ध• रूपोऽन्यो विषयोऽस्ति तस्मात्तद्विषयेण केनचिन्नयन भाव्यमिति वाच्यम् , भेदाभेदविनिर्मुक्तस्यान्यस्य सम्बन्धस्याभावात् भावे वा द्रव्यपर्यायविकल्पानतिवृत्तः, तत्स्वभावातिक्रमे वा नभस्सरोजसदृशत्वप्रसक्तेः, ताभ्यां सर्वथा ऽर्थान्तरस्य सम्बन्धस्य प्रतिपादनोपायासम्भवात् सम्बन्धस्य ताभ्यामसम्बन्धे च तयोरेव स इति व्यपदेशासम्भवात् सम्बन्धान्तरकल्पनायामनवस्थापत्तेश्च न कोऽपि सम्बन्धस्सिद्धयतीति न कोऽप्येतन्नयद्वयबहिर्भाविविषयस्सिद्धयतीति भावः ॥