________________
सप्त नयाः ] न्यायप्रकाशसमलते
: ४८१ : भानेऽपि तत्र शुक्तेर्भासमानत्वाच्छुक्तस्सत्यत्वं रजतस्य चासत्यत्वं तथा सुवर्णादिषु परस्परसमानाधिकरणानां रूपादिपर्यायाणां परस्परभिन्नकालीनानाञ्च कुण्डलादिपर्यायाणामसत्यत्वं, तदभावभानेऽपि हेम्नः प्रतिभासनाद्धेमद्रव्यस्य सत्यत्वं तथैव परस्परसमानाधिकरणानां परस्परसमानकालीनानां रूपरसादीनामसत्यत्वं तदाधारद्रव्यस्यैव सत्यत्वं, कुण्डलादयो रूपादयश्च वासनाविशेषप्रभवविकल्पसिद्धत्वेनापारमार्थिका इत्येवमभिप्रायो द्रव्यार्थिकनय 5 इति बोध्यम् । परे चत्वार इति, ऋजुसूत्रशब्दसमभिरूढवम्भूताश्चत्वार इत्यर्थः, पर्यायार्थिकनया इति, उत्पादविनाशवदर्थ एव विषयो येषां तादृशा नया इत्यर्थः, एते हि पर्यायलक्षणविषयव्यवस्थापनपराः द्रव्यार्थिकनयाभिप्रेतवस्तुव्यवस्थापनयुक्तिप्रतिक्षेपपराः, पर्यायार्थिकमते हि द्रव्यपदार्थस्सदृशक्षणसन्ततिरेव न तु पर्यायेभ्यः पृथगस्ति पर्यायेभ्य एवार्थक्रियासम्भवात् , अप्रच्युतानुत्पन्नस्थिरैकस्वभावस्य वस्तुनोऽर्थक्रियाऽसम्भवेनासत्त्वमेव यत- 10 स्सत्त्वमर्थक्रियाकारित्वं, तच्च क्रमयोगपद्याभ्यां व्याप्तं, नहि क्रमाक्रमाभ्यामन्यः प्रकारः सम्भवति व्याघातात् , तौ च स्थिरेऽसम्भवन्तावर्थक्रियामपि ततो व्यावर्त्तयतः, सा च व्यावर्त्तमानाऽर्थक्रिया सत्त्वं स्वव्याप्यमपि व्यावर्त्तयतीत्यसन्नेव स्थिरो भाव इत्येवमभिप्रायाः पर्यायार्थिकनया इति भावः । एतदभिप्रायेणैवोभयस्य क्रमेण हेतुमाह द्रव्यमानेति, मात्रपदेन पर्यायव्यवच्छेदः, पर्यायमात्रेत्यत्र मात्रपदेन द्रव्यव्यवच्छेदः । एतेन सप्तनया- 15 धिकत्वादनयोर्नयस्य नवविधत्वमिति प्रत्युक्तम् , ननु गुणविषयस्तृतीयो गुणार्थिक इति कुतो नोक्त इत्यत्राह गुणानामिति, तथा च पर्यायार्थिक इति पर्यायशब्देन सहक्रमभाविविशेषमात्रस्य परिग्रहेण तत्रैव सहभाविगुणानामन्तर्भावान्नाधिक्यप्रसङ्गः । ननु द्रव्यपर्यायव्यतिरिक्तौ सामान्यविशेषौ विद्यते ततस्तद्विषयकं नयद्वयं स्यादित्याशङ्कायामाहोर्ध्वतेति, तिर्यगवंताभेदेन द्विविधं हि सामान्यं तत्रोवंतासामान्यस्य 20 द्रव्यात्मकत्वेन द्रव्ये, प्रतिव्यक्ति सदृशपरिणामलक्षणस्य व्यञ्जनापरपर्यायस्य तिर्यक्सामान्यस्य पर्याय एवान्तर्भाव इति भावः । तिर्यक्सामान्यस्य व्यञ्जनापरपयित्वं कथमित्यत्राह स्थूला इति, प्रवृत्तिनिवृत्तिनिबन्धनार्थक्रियाकारित्वोपलक्षितो व्यञ्जनपर्याय इति भावः, स्थूलाः कालान्तरस्थायिन इत्यनेन भूतभविष्यत्त्वसंस्पर्शरहितवर्तमानकालावच्छिन्नवस्तुस्वरूपार्थपर्यायस्य व्यवच्छेदः । शब्दानां संकेतविषया इति, शब्दप्रवृत्तिनिमित्तभूता 25 इत्यर्थः वैसादृश्यविवर्तलक्षणविशेषस्य पर्यायरूपत्वस्य स्पष्टतया पृथक्पर्यायान्तर्भूतत्वेन स
१. एतन्मते कालनिष्ठात्यन्ताभावाप्रतियोगित्वमेव सत्यत्वम् , द्रव्यस्य हि कदापि नास्त्यत्यन्ताभाव इति तत्सत्यम् , पर्यायाणान्तु तत्प्रतीयमानकाल एव तत्सत्ताभानेनेतरकाले तदभावसत्त्वादसत्यत्वमिति बोध्यम् ॥