________________
ज्ञप्तौ स्वतः ] न्यायप्रकार
:४४५: णमात्रप्रयुक्तसन्निधिका नत्वप्रामाण्ये निमित्ता इत्यपि तुल्यत्वात् दोषाभावस्य तुच्छस्य गुणनिष्पाद्यत्वासम्भवाच्च, सस्वभावत्वे वा व्यतिरिक्तत्वे कारकव्यापारस्यासम्भवः स्यादपसिद्धान्तश्च प्रसज्येत, तथा च पर्युदासवृत्त्या गुणात्मक एव दोषाभावोऽभ्युपगन्तव्यः तथा गुणाभावोऽपि दोषात्मकः, इति युक्तं गुणदोषाभ्यां प्रामाण्याप्रामाण्ये इति भावः ।। ___ ननु प्रमाणं प्रामाण्यनिश्चये नान्यापेक्षं यदि ह्यपेक्षेत तत्तदा किं गुणान् संवाद 5 वाऽपेक्षेत, नाद्यः, स्वकारणगुणानां प्रत्यक्षादिप्रमाणाग्राह्यत्वात् यदि यो यः कार्यविशेषः स गुणवत्कारणपूर्वको यथा प्रासादादिविशेषः, . कार्यविशेषश्च यथावस्थितपरिच्छेद इति स्वभावहेतुना गुणवत्कारणपूर्वकत्वं सिद्ध्यतीत्युच्यते तदपि न युक्तम् , परिच्छेदे यथावस्थितार्थपरिच्छेदत्वासिद्धेः, तथा हि शुद्धकारकजन्यत्वेन संवादित्वेन बाधारहितत्वेनार्थतथात्वेन वा तत्सिद्धिर्वाच्या, तच्च न सम्भवति, परिच्छेदस्य यथावस्थितार्थपरिच्छेदत्वे गुणवत्कारण- 10 जन्यत्वस्य गुणवत्कारणजन्यत्वे च यथावस्थितार्थपरिच्छेदत्वस्यापेक्षितत्वेन प्रथमेऽन्योऽन्याश्रयात् संवादार्थिनां विज्ञाने यथावस्थितार्थपरिच्छेदत्वसिद्धिमन्तरेण तत्पूर्वकप्रवृत्तः प्रवृत्तिमन्तराऽऽर्थक्रियासंवादस्य तं विना यथावस्थितार्थपरिच्छेदत्वसिद्धेश्चासम्भवेन द्वितीये चक्रकापत्तेः, न तृतीयः, तुच्छस्वभावस्य बाधाविरहस्य सत्त्वेन ज्ञापकत्वेन वाऽनङ्गीकारात् पर्युदासवृत्त्या तदन्यज्ञानलक्षणस्य विज्ञानपरिच्छेदविशेषाविषयत्वेन तद्व्यवस्थापकत्वानुप. 15 पत्तेश्च । नापि चतुर्थः, अन्योन्याश्रयात् , अर्थतथाभावे सिद्धे तद्विज्ञानस्यार्थतथाभावपरिच्छेदत्वसिद्धिः, तत्सिद्धेश्वार्थतथाभावसिद्धिरिति । नापि संवादापेक्षया तज्ज्ञप्तिसिद्धिः, संवादक समानजातीयं भिन्नजातीयं वा, यदि समानजातीयं तर्हि एकसन्तानप्रभवं भिन्नसन्तानप्रभवं वा, तत्र भिन्नसन्तानप्रभवस्य समानजातीयस्य संवादकत्वे देवदत्तघटविज्ञानं प्रति यज्ञदत्तघटान्तरविज्ञानस्यापि संवादकत्वं स्यात् , समानसन्तानप्रभवसमानजातीयज्ञानान्तरस्य 20 संवादकत्वे च तस्यैकार्थविषयकत्वे संवाद्यसंवादकयोरविशेषः, एकविषयत्वेऽपि यथा प्राक्तनं विज्ञानं स्वसमानजातीयस्यैकसन्तानप्रभवस्योत्तरकालभाविनो विज्ञानस्य न संवादकं तथोत्तरमपि पूर्वस्येति, किञ्चोत्तरज्ञानं प्रमाणमिति कुतस्सिद्धं येन प्रथमस्य प्रामाण्यनिश्चा
१. ननु नैर्मल्यादयो गुणाः प्रामाण्येऽनुपयोगिनः किन्तु तेभ्यो दोषाणामभावः समुन्मिषतीत्यत्राह दोषाभावस्येति, तस्य तुच्छस्वभावतया कार्यत्वधर्माधारत्वं न भवेदिति भावः, अवश्यमनुभूयते दोषाभावस्य कार्यस्वाधारत्वम् , अञ्जनादेश्चक्षुरादौ क्रियमाणस्य प्रतीतेः, तथा च दोषाभावस्य दोषप्रतियोगिगुणस्वरूपत्वं वाच्यं, व्यतिरिक्तत्वेऽनुभवबाधापत्तेः, अनुभूयते च पुरा चक्षुषी सदोषे समभूतामधुना लब्धिसम्पन्ने इति । यदि दोषाभावो निःस्वभावः स्यात्तर्हि भावान्तरविनिमुक्तस्य भावस्यैवाभावत्वप्रतिपादकत्वत्सिद्धान्तविरोध इत्याशयेनाह सस्वभावत्वे वेति ॥