________________
: ४४६ :
तत्त्वन्यायविभाकरे
[ सप्तम किरणे
यकं भवेत्, न चान्यस्मात्तथाविधात्, अनवस्थापत्तेः । न चोत्तरज्ञानस्य कारणशुद्धिपरिज्ञानानन्तरभावित्वेन विशेषात्सम्भवति संवादकत्वमिति वाच्यम्, कारणशुद्धिपरिज्ञानस्यार्थ - क्रियापरिज्ञानं विनाऽसम्भवेन तत्र चक्रकदोषस्य दुर्वारत्वात् सम्भवे वा तस्यैव - निश्चायकत्वेनोत्तरकालभाविनः कारणशुद्धिज्ञानसमन्वितस्य प्रामाण्यहेतुत्ववर्णनं व्यर्थं स्यात् । 5 अथ भिन्नजातीयज्ञानान्तरस्य संवादकत्वे घटज्ञानस्यापि पटज्ञानप्रामाण्यनिश्चायकत्वापत्तिः स्यात्, स्वस्मिंश्च प्रामाण्यनिश्चयाभावे प्रवृत्त्यभावेन तन्निश्चयस्यावश्यकत्वे चक्रकप्रसङ्गेनार्थक्रियाकारिरूपं भिन्नजातीयमपि न तन्निश्चायकम् न च प्रामाण्यसंशयादपि प्रवृत्तिसम्भवेनार्थक्रियाज्ञानसम्भव इति वाच्यम्, प्रामाण्यनिश्चयस्य निष्फलत्वापत्तेस्तदन्तरेणैव प्रवृत्तेः । प्रामाण्यनिश्चयमन्तरेण प्रवृत्तो विसंवादभाड् मा भूवमिति ह्यर्थक्रियार्थी 10 प्रामाण्यनिश्चयाय कुरुते प्रवृत्ति सा च तदन्तरेणापि संजातेति, अर्थक्रियाज्ञाने च प्रामाण्यायान्यस्यापेक्षायामनवस्था भवेदित्याशंकायामाह -
ज्ञप्तौ त्वनभ्यासदशापन्ने परतोऽभ्यासदशा पन्ने च स्वत एवेति ॥
ज्ञप्ताविति । तुशब्दः पूर्वस्माद्वैलक्षण्यप्रकाशकः, तदेवाहानभ्यासेति ज्ञप्ताविति विषयसप्तमी, ज्ञप्तिविषये तावदभ्यासदशापन्ने स्वमपेक्ष्य, अनभ्यासदशा पन्ने च ज्ञाने परम15 पेक्ष्य प्रामाण्याप्रामाण्ये भवत इत्यर्थः एवशब्देनोभयस्यापेक्षाविशेषेण स्वापेक्षत्वं परापेक्षत्वच व्यावर्त्तितम् । तथा च प्रामाण्याप्रामाण्ये अभ्यासदशापन्न ज्ञाने स्वाश्रयग्राह्ये, अनभ्यासदशापत्रे तु परतो ग्राह्ये, अभ्यासानभ्यासौं ज्ञानावरणक्षयोपशम विशेषप्रयोज्यौ जाति - विशेषावेव ज्ञानगतौ, विषयगतत्वन्तु तयोरुपचारात्, आत्मनः परिणामित्वेनोभयस्वभावात्,
सर्वथा क्षणिकस्य नित्यस्य वाऽऽत्मनोऽभ्यासानभ्यास स्वभावत्वं कथमिति शङ्का परास्ता । 20 द्रव्यत्वस्य परिणामित्वव्याप्यत्वात् । प्रामाण्यग्राहकच परं स्वाश्रयातिरिक्तं संवादज्ञानमेव, कारणगुणबाधकज्ञानयोरप्येतन्मुखापेक्षित्वात् । कारणगुणानां संवादप्रत्ययमन्तरेण ज्ञातुमशक्यत्वात् संवादप्रत्ययतः कारणगुणपरिज्ञानाभ्युपगमे च तत एव प्रमाण्यनिश्चयस्यापि
१. अनभ्यासदशायामपि स्वगतं प्रामाण्यं यदि स्वयमेव ज्ञायेत यथार्थपरिच्छदकमहमस्मीति तदेदं ज्ञानं प्रमाणं नवेति प्रामाण्यसंशयो न स्यादेव ज्ञानत्वे संशयाभाववत् न च निश्वितेऽपि प्रामाण्ये प्रमाणाप्रमाणसाधारण ज्ञानत्वधर्मदर्शनेन विशेषादर्शनेन च संशयो भवतीति वाच्यम्, साधकबाधकप्रमाणतिरस्कारेण साधारणधर्मदर्शनस्य संशयं प्रत्यकारणत्वादन्यथा संशयानुच्छेदप्रसङ्गः स्यात् प्रकृते च स्वतः प्रामाण्यज्ञप्ति - रूपस्य प्रामाण्यसाधकस्याप्रामाण्यबाधकस्य सत्त्वात् तस्मात्संशयानुरोधेन तत्र न स्वतो ग्राह्यं प्रामाण्यमिति भावः । २. संवादकज्ञानञ्च यादृशोऽर्थः पूर्वस्मिन् विज्ञानेऽवगतस्स तादृश एवेति येन विज्ञानेन व्यवस्थाप्यते तत् अत्र पक्षे कारणगुणज्ञानस्य बाधकाभावज्ञानस्य च संवादकज्ञानत्वेन प्रामाण्यनिश्चायकत्वे न क्षतिः ॥