________________
शप्तौ स्वतः ]
या प्रकाशसमलङ्कृ
: ४४७ :
सिद्धत्वेन कारणगुणपरिकल्पनानर्थक्यात् । न चैकदा संवादप्रत्ययेन निश्चित्य कारणगुणानन्यदा तन्निश्चयादेव तज्जन्यज्ञानस्य निश्चयो न तत्र पुनस्संवादापेक्षेति वाच्यम्, अतीन्द्रियेषु चक्षुरादिषु कालान्तरेऽपि संवादकज्ञानमन्तरा गुणानुवृत्तेर्निश्चेतुमशक्यत्वात् न च संवादप्रत्ययात्प्रामाण्याभ्युपगमे संवादप्रत्ययस्याप्यपरसंवादप्रत्ययात्प्रामाण्यावगमेनानवस्थेति वाच्यम्, संवादप्रत्ययस्य संवादरूपत्वेना परसंवादापेक्षा भावादनवस्थानवतारात् । न च प्रथमस्यापि 5 संवादापेक्षा मा भूदिति वाच्यम्, संवादजनकत्वस्यैव प्रामाण्यत्वेन तदभावे प्रामाण्यासम्भवात् अर्थक्रियाज्ञानरूपं संवादज्ञानन्तु साक्षादविसंवादि, अर्थक्रियालम्बनत्वात्, तस्य स्वविषयसंवेदनमेव प्रामाण्यं, तच्च स्वतस्सिद्धमिति नान्यापेक्षा । न चार्थक्रियाज्ञानस्याप्य वस्तुवृत्तिशङ्कायामन्यप्रमाणापेक्षयाऽनवस्था स्यादिति वाच्यम्, अर्थक्रियाज्ञानस्यार्थ क्रियानुभव स्वभावत्वेनाक्रियामात्रार्थिनां भिन्नार्थक्रियात एतज्ज्ञानमुत्पन्नं किं वा तद्व्यतिरेकेणेत्येवंभूतायाश्चिन्ताया 10 निष्प्रयोजनत्वात् निष्पन्नत्वाद्वाञ्छितफलस्य । एवञ्च संवादकज्ञानस्य परत्वे समानजातीयभिन्नजातीयैकसन्तानभिन्नसन्तान विकल्पकृत दोषाणां नोपनिपातः, उभयस्वीकारात्, देवदत्तघ ज्ञाने समानजातीययज्ञदत्तघटज्ञानस्य, प्रथमप्रवृत्तजलज्ञाने भिन्नजातीयस्योत्तरकालभाविस्नानपानावगाहनाद्यर्थक्रियाज्ञानस्य, एक सन्तानगतेऽन्धकार कलुषिता लोकप्रभवकुम्भज्ञाने निस्तिमिरालोकप्रभवकुम्भज्ञानस्य, भिन्नसन्ताने च समानजातीयकुम्भज्ञानस्योक्तस्य संवादकत्वस्वी - 15 कारात् एकसन्तानेऽभिन्नविषये संवाद्यसंवादकभावाविशेषस्य मन्दप्रबल सामग्री समुत्पाद्यतयैव निरासात् । तथा न संवादकज्ञानात्प्रामाण्यनिश्चये चक्रको दोषः, संवादज्ञानेन प्रथमं प्रामाण्यं निश्चित्यैव प्रवर्त्तत इत्यनभ्युपगमात् वह्निस्वरूपदर्शनेऽसत्येकदा शीतपीडितोऽन्यकार्यार्थं वंह्निमद्देशमुपसर्पस्तत्स्पर्शमनुभवति, कृपालुना वा केनचित्तदेशं वह्नेरानयने तत्स्पर्श मनुभवति, तदाऽसौ वह्निस्वरूपदर्शनस्पर्शनज्ञानयोस्संबन्धमवगच्छति 'एवम्भूतो भाव एवम्भूतप्रयोज - 20 निवर्त्तक ' इति एवमवगतसम्बन्धोऽन्यदाऽनभ्यासदशायामनुमानात् ' ममाऽयं स्वरूपप्रतिभासोऽभिमतार्थक्रियासाधनः एवंरूपप्रतिभासत्वात्पूर्वोत्पन्नैवं रूपप्रतिभासवदि ' त्येवंरूपात्पूर्वदर्शनस्य प्रामाण्यं निश्चित्य प्रवर्त्तत इति चक्रकाभावात् । न च संशयात्प्रवृत्तौ तत्रार्थ - क्रियाज्ञानात्प्रामाण्यनिश्चयो विफल इति वाच्यम्, तत्रार्थक्रियाज्ञानजन्यप्रामाण्यनिश्चयस्य संशयापनयनफलत्वात् । संशयापगमस्य त्वभ्यासः प्रयोजनम् । एकदाऽर्थक्रियाज्ञानात् प्रामा
25
निश्चयेऽन्यदा प्रतिपत्तॄणां सुखेनैवाभ्यासात् स्वतः प्रामाण्यनिश्चयपूर्वक प्रवृत्तिसम्भवात् । न च संशयात्प्रवर्त्तमानस्य कथं प्रेक्षावत्त्वमिति वाच्यम्, अप्रेक्षावत्त्वस्यैवेष्टत्वात् नहि कश्चिजात्या प्रेक्षावान् तदन्यो वा, प्रेक्षावरणक्षयोपशमविशेषस्य सर्वत्र सर्वदा सर्वेषामसम्भवात्, प्रक्षीणाशे पावरणादशेषवेदिनोऽन्यत्र क्वचित्कदाचित्कस्यचिदेव प्रेक्षावत्त्वादित्यलं पल्लवितेन ॥