________________
: ४४८ :
न्यायविभाकरे
[ सप्तमकिरणे
तदेवं मत्यादिपञ्चविधं प्रत्यक्ष परोक्षरूपं सलक्षणं सभेदश्च संक्षेपत आख्याय प्रमाणविषयफलप्रमातृरूपेषु चतुर्विधेषु तत्स्वस्य परिसमाप्तेस्तद्विषयमभिधातुकाम आह
परिच्छेद्यमस्य प्रमाणस्य सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥
परिच्छेद्यमिति । परिच्छेत्तुं योग्यो विषय इत्यर्थः, परिच्छेद्यमस्याने कान्तात्मकं 5 वस्त्विति योजना, अनेकान्तः कीदृश इत्यत्राह सामान्यविशेषादीति, सामान्यञ्च विशेषश्च सामान्यविशेषौ वक्ष्यमाणस्वरूपौ तावादिर्यस्य सः, सचासावनेकान्तश्च स एवात्मा स्वरूपं यस्य तदिति विग्रहः, वस्तुपदेन बाह्योऽभ्यन्तरश्च भावराशिर्याह्यः नित्यानित्यभेदाभेदाभिलाप्यानभिलाप्यादीनामादिना ग्रहणम् । ननु सत्त्वासत्त्वाद्यनेकान्तात्मकमिति कुतो नोक्तमितरेषां तदधीनत्वादिति चेन्न, सत्त्वासश्वात्मकत्वस्य सप्तभङ्गीनिरूपणेनावगतप्रायत्वात्, 10 सामान्यशब्देन द्रव्यबोधकेन नित्यत्वस्य पर्यायवाचिविशेषशब्देनोत्पादव्यययोश्च लाभेनोत्पादव्ययध्रौव्यात्मकत्वस्यापि वस्तुनि लाभाच्च तथोपन्यासः । ननु कथं सामान्यविशेषात्मकत्वं वस्तुनस्सम्भवति, सामान्यं ह्येकं, अनेके विशेषाः, नित्यं सामान्यं, अनित्या विशेषाः, निरवयवं सामान्यं, सावयवा विशेषाः, अक्रियं सामान्यं, सक्रिया विशेषाः, सर्वगतं सामान्यं, असर्वगता विशेषाः, तथा च वस्तु यदि सामान्यरूपं कथं, विशेषरूपम्, अथ विशेषरूपं 15 कथं सामान्यरूपम्, तदुभयरूपत्वे च वस्तुनस्सकललोकप्रसिद्धव्यवहारनियमोच्छेदप्रसङ्गः, तथाहि विषमोदकक्षीरादिव्यक्त्यभिन्नमेकं सामान्यं यदि वर्त्तते तर्हि विषं विषमेव, मोदको मोदक एवेति न स्यात्, मोदकाभिन्नसामान्याभिन्नत्वात् विषस्य, विषाभिनसामान्याभेदात् मोदकस्य, अपि तूभयमुभयरूपं स्यात् ततश्च विषे मोदके च विषार्थी प्रवर्तेत, मोदके विषे च मोदकार्थी, लोके च विषार्थी विष एव प्रवर्त्तते, मोदकार्थी 20 मोदक एवेत्यस्य नियमस्योच्छेदः, तथा विषे भक्षिते मोदकोऽपि भक्षितस्स्यात् मोदके भक्षिते विषमपि, तथा च सति प्रतीतिविरोध इति चेन्मैवम्, सामान्यविशेषात्मक वस्तुनोऽ नुभवसिद्धत्वात्, घटेषु घटो घट इत्यनुवृत्तप्रत्ययस्य ताम्रो मार्त्तिकस्सौवर्णइत्येवं व्यावृ
१. तथा च प्रयोगो जीवादिधर्मी अनन्तधर्मात्मकः प्रमेयत्वान्यथानुपपत्तेरिति न च धर्मे व्यभिचारः, तस्याप्यनन्तधर्मात्मकत्वे धर्मित्वप्रसक्तेः इष्टापत्तौ न धर्मों स्यात्कोऽपि धर्माभावादिति वाच्यम्, सर्वथा धर्मस्यैव कस्यचिदसम्भवात् विवक्षितधर्म्यपेक्षया हि सत्त्वादिधर्मः, स स्वधर्मान्तरापेक्षया धर्म्यपि, न चानवस्था, अनाद्यनन्तत्वाद्धर्मधर्मिस्वभावभेदव्यवहारस्य । न च साधनस्य प्रमेयत्वस्यानन्तधर्मशून्यत्वे तेनैवानेकान्तः, तस्यानन्तधर्मात्मकत्वे धर्मित्वेन पक्षान्तर्गतत्वान्न हेतुत्वमिति वाच्यम्, धर्मिणो जीवादेरपोद्वियमाणस्य प्रमेयत्वादेर्धर्मस्य नयविषयस्य नयत्वेनाप्रमेयत्वाद्वयभिचाराभावात् व्यभिचारलक्षणे साध्याभावतद्वद्वृत्तित्वयोरेकावच्छेदेन प्रवेशादिति बोध्यम् ।।