________________
तत्त्वन्यायविभाकरे
[ सप्तम किरणे
: ४४४ :
तदभावस्य दृष्टत्वेन तद्धेतुकत्वव्यवस्थापनात्, कार्यकारणभावस्यान्वयव्यतिरेकनिबन्धनत्वात्, अन्यथा दोषवच्चक्षुराद्यन्वयव्यतिरेकसत्त्वेऽप्यप्रमाणत्वस्यापि स्वत एवोत्पत्तिः प्रसज्येत, न चेष्टापत्तिरपसिद्धान्तताप्रसङ्गात् । प्रत्यक्षादितोऽनुपलभ्यमानानामपि स्वकारणचक्षुरादिगतदोषाणामप्रामाण्योत्पत्तौ कारणत्वमिव गुणानामपि चक्षुरादिनिष्ठानां 5 प्रामाण्योत्पत्तिकारणत्वे बाधकाभावाच्च, शक्तिरूपप्रामाण्यमपि न स्वत उत्पत्तुमर्हति, तथा सत्यप्रामाण्यस्यापि अयथार्थ परिच्छेदकशक्तिरूपस्य केनचित्कर्तुमशक्तेस्तत्स्वत एव स्यात् तत्कारणेषु तिमिरादिदोषवत्सु चक्षुरादिषु तस्या अविद्यमानत्वात् । इन्द्रियादीनां स्वेष्वविद्यमानाया अपि ज्ञानरूपताया इव तादृशशक्तेरप्याविर्भावकत्वे बाधकाभावात् ज्ञानविशेषाणां स्वतोऽनुत्पत्त्या तन्निष्ठशक्तीनां स्वत एवोत्पत्त्यसम्भवाश्च, न च 10 शक्तयो ज्ञानव्यतिरिक्ताः, स्वाधाराभिमतभाव कारणेभ्यो भावस्योत्पत्तावपि स्वाश्रयैस्ततोऽभवन्तीनां सम्बन्धासम्भवात् । भिन्नानां कार्यकारणभावातिरिक्तसम्बन्धासम्भवात् आश्रयाश्रयिभावस्यापि जन्यजनकभावनियतत्वात् नापि धर्मधर्मिभावस्सम्बन्धः शक्तेरपारतन्त्र्ये धर्मत्वासम्भवात् न चार्थतथाभावप्रकाशनरूपप्रामाण्यस्य स्वसामग्रीतो ज्ञानोत्पत्तावप्यनभ्युपगमे तद्विज्ञानस्य किं स्वरूपं ? नहि तद्व्यतिरेकेण विज्ञानस्वरूपं भवन्मते 15 सम्भवति, किञ्च तदुत्पत्तावपि तन्नोत्पद्यते पश्चाच्च तद्र्यतिरिक्तसामग्रीत उत्पद्यत इत्यभ्यु - पगमे विरुद्धधर्माध्यासात्कारणभेदाच्च भेदः स्यात्, तयोरेव भेदहेतुत्वेनाभ्युपगमादिति वाच्यम्, विज्ञानस्य चक्षुरादिसामग्रीजन्यत्वेऽपि नैर्मल्यादिसामथ्र्यन्तरात्प्रामाण्यस्य पश्चादुत्पत्तेरनभ्युपगमात्, किन्तु गुणवच्चक्षुरादिसामग्रीत आगृहीतप्रामाण्यस्वरूपस्यैव विज्ञानस्योत्पत्त्यभ्युपगमात्, तस्मादेव च ज्ञानमिव तदव्यतिरिक्तस्वभावं प्रामाण्यमपि परत उच्यते, 20 तथा च प्रामाण्यं स्वोत्पत्तौ ज्ञानोत्पादक कारणव्यतिरिक्तकारणान्तरापेक्षं तदन्वयव्यतिरेकानुविधायित्वात् यच्चक्षुरादिव्यतिरिक्तस्यान्वयव्यतिरेकानुविधायि तत्तत्सापेक्षम्, यथाप्रामाण्यमिति प्रयोगेणोत्पत्तौ तस्य परापेक्षत्वं सिद्धम् । ननु भवतु प्रामाण्यमुत्पत्तौ परतः परश्च दोषाभाव एव स्यान्न गुणः, दोषसत्त्वे प्रामाण्यानुदयेन तदुदये तदभावस्यैव हेतुत्वौचित्यात्, तथा च ज्ञानहेत्वतिरिक्तभावानपेक्षत्वेनोत्पत्तौ तत्स्वत इत्युच्यत इत्याशंकायामुक्तं 25 स्वकारणवृत्ति गुणदोषेति, ज्ञानकारणातिरिक्तगुणदोषापेक्षयेति तदर्थः, तथा प्रामाण्ये गुणोs प्रामाण्ये दोषो हेतुः, न तु प्रामाण्ये दोषाभावोऽन्यथा गुणसत्त्वेऽप्रामाण्यानुदयेन तदुदये गुणाभावस्यैव हेतुत्वौचित्यात्तस्यैव स्वतस्त्वापत्तिः स्यात्, न चाप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेकौ स्त इति वाच्यम्, गुणानामप्यन्वयव्यतिरेकसम्भवात् । न च प्रामाण्ये गुणा दोषोत्सारणमात्रप्रयुक्तसन्निधिका न तु प्रामाण्ये निमित्ता इति वाच्यम्, दोषा गुणोत्सार -