________________
उत्पत्तौ परत्वम् ] म्यायप्रकाशसमलङ्कृते
:४४३: घटते सर्वथा कर्तृकरणकर्मक्रियाणामभेदानभ्युपगमात् तासां कर्तृत्वादिशक्तिनिमित्तत्वात्कथश्चिद्भेदसिद्धेः । ततश्च ज्ञानं स्वप्रकाशमेवेति संक्षेपः ॥
ननु तत्प्रामाण्यनिश्चयस्स्वतो वा परतो वा स्यात् न स्वतः, स्वसंविदितत्वेऽपि ज्ञानत्वेनैव ज्ञानस्य ग्रहणात् न तु तन्निष्ठप्रामाण्येन, ज्ञानत्वस्य त्वाभाससाधारणत्वात् प्रामाण्यस्यापि ग्रहे सर्वेषां विप्रतिपत्त्यभावप्रसङ्गाच्च स्वस्वज्ञानस्य हि प्रामाण्यग्रहे सर्वे प्रवादा- 5 स्सत्याः स्युः । ज्ञानेन स्वतः प्रामाण्यग्रहे प्रामाण्यनिश्चयात्संशयोच्छेदप्रसङ्गश्च यदि हि ज्ञानं न गृहीतं तदा धर्मिज्ञानाभावादेव न तत्संशयः, समानधर्मवत्तया धर्मिज्ञानस्य संशयहेतुत्वात् गृहीते च ज्ञाने तत्प्रामाण्यमपि गृहीतमेवेति तदापि संशयो न स्यादिति । नापि परतः, परो हि ज्ञानान्तरं वा अर्थक्रियानि सो वा, तद्गोचरनान्तरीयकार्थदर्शनं वा तच्च सर्व स्वतोऽगृहीतप्रामाण्यमव्यवस्थितं कथं पूर्वप्रवर्तकज्ञानं व्यवस्थापयेत् स्वतो 10 वाऽस्य प्रामाण्ये प्रवर्तकज्ञानमपि तथैव स्यात् परस्याप्यन्यतः प्रामाण्ये त्वनवस्था प्रसज्येतेत्याशङ्कायामाह- प्रामाण्याप्रामाण्ये च स्वकारणवृत्तिगुणदोषापेक्षयोत्पत्तौ परत एव ।।
प्रामाण्याप्रामाण्ये चेति । स्वकारणेति, स्वस्य ज्ञानस्य यत्कारणं चक्षुरादिकारणकलापः तनिष्ठौ यौ गुणदोषौ तावपेक्ष्य प्रामाण्याप्रामाण्ये भवत इति परमपेक्ष्योत्पद्यमान- 15 त्वादुत्पत्तिविषये ते परत एव भवत इति भावः, तेनार्थतथाभावप्रकाशकत्वरूपस्य प्रामाण्यस्य स्वज्ञानकारणातिरिक्तगुणानपेक्षत्वात्स्वत एवोत्पत्तिः, तथाहि कारणगता न ते गुणा उपलभ्यन्ते चक्षुरादीनां ज्ञानकरणानामतीन्द्रियत्वेन तद्गुणानां प्रत्यक्षतः प्रतिपत्त्यसम्भवात् नाप्यनुमानेन, इन्द्रियनिष्ठगुणैस्साकं कस्यापि लिङ्गस्य प्रत्यक्षतः प्रतिबन्धाग्रहेण प्रत्यक्षतो गृहीतव्याप्तिकलिङ्गाभावात् । अनवस्थाप्रसरेणानुमानतो गृहीतव्याप्तिकलिनाभावाच्च, 20 लिङ्गनिष्ठव्याप्तिग्राहकानुमानस्याप्यनुमानान्तरतो गृहीतव्याप्तिकत्वात् अनुमानान्तरस्यापि तथात्वादिति । किश्चार्थतथात्वपरिच्छेदकशक्तिरूपं हि प्रामाण्य, शक्तयश्च सर्वारस्वत एव भवन्ति, नोत्पादककारणकलापाधीनाः, यथाहि मृत्पिण्डे वर्तमाना रूपादयो मृत्पिण्डादुपजायमाने घटेऽपि कार्ये तत एवोत्पद्यन्ते, न तु कारणेष्वविद्यमानाः कार्यधर्माः कारणेभ्यः कार्ये - उदयमासादयन्ति किन्तु स्वत एव, घटस्यैवोदकाहरणशक्तिवत् , तथा 25 ज्ञानेऽप्यर्थतथात्वपरिच्छेदशक्तिश्चक्षुरादिष्वविद्यमाना न तस्मादुपजायते किन्तु स्वत एवेति मतमपास्तम् , अर्थतथाभावप्रकाशकत्वरूपप्रामाण्यस्य स्वत एवोत्पत्तौ निर्हेतुकत्वेन देशकालस्वभावप्रतिनियमानुपपत्तेः गुणवञ्चक्षुरादिसत्त्वे यथावस्थितार्थप्रतिपत्तेस्तदभावे च