________________
:४४२:
तस्वन्यायविभाकरे
[ सप्तमकिरणे
भिन्नं कर्मत्वं, तहिं कथं तत्र ज्ञानस्य जानातीति क्रिया स्वात्मनि स्याद्येन विरुध्येत, तथात्वे कथं घटं करोतीति क्रियाऽपि कटकारस्य स्वात्मनि न स्याद्यदि न विरुध्यते । कर्तुः कर्मत्वं कथञ्चिद्भिन्नमित्येतस्मिस्तु दर्शने ज्ञानस्यात्मनो वा सर्वथा स्वात्मनि क्रिया दूरोत्सारितैवेति न विरुद्धतामधिवसतीति । न च ज्ञानक्रियायाः कर्तृसमवायिन्याः कर्मतया 5 स्वात्मनि विरोधस्ततोऽन्यत्रैव कर्मत्वदर्शनादिति वाच्यम् ; तर्हि करणत्वमपि तत्र न स्यात् दृश्यते हि ज्ञानेनार्थमहं जानामीति करणत्वम् , न च ज्ञानेनेत्यनेन विशेषणज्ञानं करणत्वेन विवक्षितमथं जानामीत्यनेन विशेष्यज्ञानं कर्मत्वेन विवक्षितं तस्मात्करणमन्यत् कर्मान्यदिति वाच्यम् , कस्यापि विशेषणज्ञानेन विशेष्यं जानामीति प्रतीतेरनुदयात् । किन्तु विशे
पणज्ञानेन विशेषणं विशेष्यज्ञानेन च विशेष्यं जानामीत्यनुभवात् । न चादौ दण्डाग्रहे 10 दण्डिनमहं वेद्मीति कथं न दण्डविशिष्टपुरुषबुद्धिरेन्यथा दण्डरहितेऽपि पुरुष तथा प्रत्य
यप्रसङ्गादिति वाच्यम् , दण्डविशिष्टे पुरुषे प्रवर्त्तमानया बुद्ध्या सकृदेव दण्डविशिष्टपुरुषग्रहणात् दण्डरहिते च तद्वैशिष्ट्याभावादेव तथा प्रतीत्यनुदयात् । ततो विशेष्यज्ञानं सकृदेव विशेषणविशेष्योभयालम्बनमेव न तु विशेषणज्ञानेन जन्यत्वात्केवलं विशेष्य
विषयम् । विशेषणज्ञानस्य करणत्वे विशेष्यज्ञानस्य च ज्ञानकार्यत्वे विशेषण15 ज्ञानं प्रत्यपि करणान्तरापत्तिश्च स्यात् तत्रापि दण्डत्वादिजातिज्ञानस्य करणत्वाभ्युपगमे
तत्राप्यन्यस्य वक्तव्यत्वापत्तेः, तस्माद्विशेषणविशेष्यज्ञानयोन करणत्वक्रियात्वे अपि तु ते एकज्ञानस्वरूपे अत एव च तयोर्यथा न विरोधस्तथा कर्मत्वेनापि, तस्मात् प्रमातुरात्मनो वस्तुपरिच्छित्तौ साधकतमत्वेन व्यापृतं रूपं करणं निर्व्यापारं तु क्रिया स्वातंत्र्येण
पुनर्व्याप्रिय माणः कर्त्ता आत्मेति ज्ञानात्मक एवात्मा ज्ञानात्मनाथ जानातीति कर्तकरण20 क्रियाविकल्पेन प्रतीतिसिद्धः, एवं कर्मव्यवहारोऽपि ज्ञानात्माऽऽत्मनाऽऽत्मानं जानातीति
१. ज्ञानक्रियायाः करणज्ञानस्य च भिन्नत्वान्नास्ति विरोध इति चेटिंक करणज्ञानं का वा ज्ञानक्रियेत्यत्राह न चेति ॥ २. दण्डाग्रहेऽपि दण्डविशिष्टपुरुषबुद्धयभ्युपगम इत्यर्थः ॥ ३. तुल्यदेशावस्थायिनि तुल्येन्द्रियग्राह्येऽर्थे घटपटादौ एकस्यापि ज्ञानस्य व्यापारेऽविरोधः, न च तत्रापि विषयभेदेन ज्ञानभेदो भाव्यः, ज्ञानानां युगपद्भावानभ्युपगमात् नापि क्रमेण, तथाऽप्रतीतेः, युगपद्भावे च कार्यकारणभावोऽपि न स्यादेव सव्येतरगोविषाणवत् तस्माद्विशेष्यज्ञानं विशेषणविशेष्योभयावलम्बनमेवेत्याशयेनाह ततो विशेष्यज्ञानमिति ॥ ४. ननु चक्षुरादिकं हि करणं ज्ञानक्रिय तो भिन्नमेव, न च ज्ञानेनार्थ जानामीति प्रतीत्या ज्ञानस्यापि करणत्वमिति वाच्यम् तत्र ज्ञायतेऽनेनेति व्युत्पत्त्या ज्ञानपदस्य चक्षुषो बोधकत्वादिति चेन्न तस्य साधकतमत्वासम्भवात् व्यवधानात् ज्ञानस्यैव साधकतमत्वात् न च यदेव ज्ञानं पदार्थस्य ज्ञानक्रियायां करणं तदेव ज्ञानक्रियेति कथं तत्र क्रियाकरणव्यवहारः प्रातीतिकः स्याद्विरोधादिति वाच्यम् कथञ्चिद्भेदादित्याशये. नाह तस्मात्प्रमातुरिति ।