________________
प्रामाण्यादिस्वरूपम् ]
न्यायप्रकाश मल
अथ सप्तमः किरणः ।
एवं प्रमाणे निरूपिते तस्य प्रामाण्ये वादिनां विप्रतिपत्तेस्तद्विवेचयितुमाह
ज्ञानस्य प्रामाण्यं प्रमेयाव्यभिचारित्वमेव । स्वातिरिक्तग्राह्यापेक्षया प्रमेयव्यभिचारित्वं ज्ञानस्याप्रामाण्यम्, सर्वन्तु स्वापेक्षया प्रमाणमेव पेक्षा तु किश्चित्प्रमाणं किञ्चिचाप्रमाणम् ॥
: ४४१ :
५६
5
ज्ञानस्येति । प्रमेयेति, प्रमीयमाणो योऽर्थस्तदव्यभिचरणशीलत्वं ज्ञाननिष्ठं प्रामाण्यमित्यर्थः । अप्रामाण्यपदार्थमाह स्वातिरिक्तेति, सर्व संवित्तेस्स्वसंवेदनस्य कथञ्चित्प्रमाणत्वोपपत्तेर्बहिः पदार्थापेक्षयैत्र किञ्चिज्ज्ञानं प्रमाणं किश्चिच्च प्रमाणाभासमित्यभिप्रायेणाह सर्वन्त्विति, न चैत्रं विरोधः प्रसज्यत इति वाच्यम्, जीवस्यैकस्यावरणविगमविशेषात्सत्ये 1 तरसंवेदनपरिणामसिद्धेः श्वेतघटे पीतघटज्ञानवत् । तथा च सर्वत्र ज्ञाने स्वरूपे प्रामाण्य- 10 मनावृतमेव, बहिरर्थे त्वनियतस्तत्क्षयोपशम इति स्वभावकल्पनान्न विरोध इति भावः । एतेन ज्ञानमात्रं स्वापेक्षया प्रत्यक्षप्रमाणम्, न चैवमनुमितित्वादिना प्रत्यक्षत्वस्य साङ्कर्यमिति वाच्यम्, कचित्संकीर्णजातेरप्यदुष्टत्वो पगमात् एवञ्च ज्ञानस्यार्थोन्मुखतयेव स्वोन्मुखतयापि प्रतिभासनं भवतीति सूचितम् । न च यस्यानुभाव्यत्वं तस्याननुभूतित्वं दृष्टं यथा घटादिः, ज्ञानस्यानुभाव्यत्वेऽननुभूतित्वप्रसङ्ग इति वाच्यमनुभूतित्वेनैव ज्ञानस्यानुभवात् न 15 पुनरनुभाव्यत्वेन, ज्ञातुर्ज्ञातृत्वेनानुभववत् नापि ज्ञानस्यानुभाव्यत्वं दोष: पदार्थापेक्षयाऽ नुभूतित्वात्, स्वापेक्षया त्वनुभाव्यत्वात् । न च विरोधः, अपेक्षाभेदात्, एकस्य पितृत्वपुत्र - त्ववत् । न च स्वात्मनि क्रियाविरोधः, अनुभवसिद्धेऽर्थे विरोधासिद्धेः । किञ्च का नाम क्रियाssत्मनि विरुद्धा, न तावत्परिस्पन्दस्वरूपा, तस्या द्रव्यवृत्तित्वेनाद्रव्ये ज्ञानेऽसम्भवात् । न धात्वर्थात्मिका, सापि न तावदकर्मिका, वृक्षस्तिष्ठतीत्यादौ तस्या वृक्षादिरूपे स्वात्मन्येव 20 प्रतीत्याऽप्यविरोधवत् ज्ञानं प्रकाशत इत्यादावपि अकर्मक क्रियाया ज्ञानस्वरूपत्वेऽविरोधात्, प्रतीतेरुभयत्रापि तुल्यत्वात् । अथ ज्ञानमात्मानं जानातीति सकर्मिका क्रिया स्वात्मनि विरुद्धा स्वरूपादपरत्रैव कर्मत्वप्रतीतेरित्युच्यते तदपि न चारु, आत्माऽऽत्मानं हन्ति प्रदीपरस्वात्मानं प्रकाशयतीत्यादिकायाः क्रियाया अपि विरोधापत्तेः । न च नात्र पारमार्थिकं कर्मत्वं किन्त्वात्मादौ कर्त्तर्युपचरितमेवेति वाच्यम्, कर्त्तरि ज्ञानेऽपि स्वरूपस्यैव ज्ञानक्रियानिरूपितकर्मत्वेनोपचारात्, न च ज्ञाने कर्मत्वं तात्त्विकं प्रमेयत्वादिति वाच्यम्, सर्वथा कर्मत्वस्य कर्त्तुर्ज्ञानादभिन्नत्वे स्याद्विरोधः यदि कर्त्तृ कथं कर्म यदि कर्म कथं कर्त्रिति, अथ सर्वथा