Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 534
________________ नैगम! ] म्यायप्रकाशसमलङ्कृते : ४८३ : विवक्षणं नैगमनयः । यथा पर्वते पर्वतीयवह्निरिति । अत्र वह्नथात्मको धर्मः प्रधानं विशेष्यत्वात्, पर्वतीयत्वरूपव्यञ्जनपर्यायो गौणो वह्निविशेषणत्वात्, एवमनित्यज्ञानमात्मनः घटे नीलं रूपमित्यादयो धर्मद्वयविषयकदृष्टान्ता भाव्याः ॥ तत्रेति । सप्तसु नयेषु मध्य इत्यर्थः । निगम्यन्ते परिच्छिद्यन्तेऽर्था इति निगमाः, 5 तत्र भवो योऽभिप्रायो नियतपरिच्छेदरूपस्स नैगमः, अर्थाश्रयेणोत्पत्तिमत्वमिति भावः । अर्थश्व लोकप्रसिद्धः, व्यवहाराश्च सामान्याश्रया अन्यथाऽनुगतबुद्ध्यभावः स्यात् विशेषाश्रयाः, तदभावे व्यावृत्तिबुद्ध्यभावप्रसङ्गादित्येवंविधाः, तथा च तल्लक्षणमाह गौणेति, मुख्यामुख्यतया धर्मद्वयस्य पर्याययोः, धर्मिद्वयस्य द्रव्ययोर्धर्मधयुभयस्य पर्यायद्रव्ययोश्च विवक्षणमित्यर्थः, ननु स्वतंत्रतया सामान्यविशेषोपगमे दुर्नयत्वं काणादवत्स्यात् । शबलतया तदभ्यु- 10 पगमे च प्रमाणत्वमेव यथास्थानं प्रत्येकं गौणमुख्यभावेन मूलोक्तरीत्याऽभ्युपगमे च सङ्ग्रह - व्यवहारान्यतरप्रवेशः स्यादिति चेन्न, तृतीयपक्षाश्रयणे दोषाभावात् क्वचित्सङ्ग्रह व्यवहारविषयत्वेऽपि क्वचिदेकस्य सत उभयग्रहणोपयोगव्यावृत्तत्वेन तदतिरेकात्, अत एव नयद्वयसंयोगेन नान्यथासिद्धिः प्रत्येकविषयताद्वयातिरिक्तस्वतंत्रविषयताकत्वादस्य, तथा च गौणमुख्यभावेन सामान्यविशेषोभयस्वीकर्त्तृजातीयैकदेशबोधत्वं नैगमस्य लक्षणम् । अयन नय: - 15 सत्तालक्षणं महासामान्यं द्रव्यत्वादीन्यवान्तरसामान्यानि तथाऽन्त्यान् विशेषान् सकलासाधारणरूपलक्षणानवान्तरविशेषानपेक्षया परस्परव्यावर्त्तनक्षमान् सामान्यादत्यन्तविनिर्लुठितस्वरूपानभिप्रैति । क्रमेणा मुमुदाहरति यथेति व्यञ्जनपर्याययोर्मुख्यामुख्यतया विवक्षणे उदाहरणमिदम्, तदेव सङ्गमयति अत्रेति, उदाहरणेऽस्मिन्नित्यर्थः, दृष्टान्तान्तराण्याहैवमिति, अत्र ज्ञानं प्रधानं विशेष्यत्वात्, अनित्यत्वमप्रधानं विशेषणत्वात् । रूपं प्रधानं विशेष्यत्वात् 20 नैल्यमप्रधानं विशेषणत्वादिति क्रमेण मुख्यामुख्यभावो विज्ञेयः ॥ धर्मिद्वयविषयकमुदाहरति काठिन्यवद्रव्यं पृथिवीत्यादौ पृथिवीरूपधर्मिणो विशेष्यत्वान्मुख्यत्वं काठिन्यवद्रव्यस्य विशेषणत्वाद्गौणत्वम् यद्वा काठिन्यवद्रव्यस्य विशेष्यत्वान्मुख्यता, पृथिव्या विशेषणत्वाद्गौणता । एवं रूपवद्द्रव्यं मूर्त्त, पर्या- 25 यवद्द्रव्यं वस्त्वित्यादीनि धर्मिद्वयविषयकविवक्षणे उदाहरणानि ॥

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676