Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 264
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । इमं वयं तु तुमं पाउकुवं, पावाइणो गरिहसि सब एव । पावाइणो पुढो किट्टयंता, सयं सयं दिट्ठि करिति पाउ ॥ ११ ॥ व्याख्या-अहो आईकुमार ! — इमां' पूर्वोक्तां वाचं 'प्रादुष्कुर्वन् ' प्रकाशयन् सर्वान् प्रावादुकान् गर्हसि, यस्मात्सर्वेऽपि तीर्थका बीजोदकादिभोजिनोऽपि संसारोच्छेदनाय प्रवर्तन्ते, ते तु भवता नाभ्युपगम्यन्ते, ते तु प्रावादकाः पृथक् पृथक स्त्रीयां स्त्रीयां दृष्टिं प्रत्येकं स्वदर्शनं कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति, यदिवा श्लोकपश्चार्द्धमाककुमार आह-सर्वेऽपि प्रावादुका यथावस्थितं स्वदर्शनं प्रादुष्कुर्वन्ति, तत्प्रामाण्याच वयमपि स्वदर्शनाविर्भावनं कुर्मः, तथाहिअप्रासुकेन बीजोदकादिपरिभोगेन कर्मबन्ध एव केवलं, न संमारोच्छेदः, इतीदमस्मदीयं दर्शनं, एवं च व्यवस्थिते कात्रपरनिन्दा ? को वाऽऽत्मोत्कर्ष ? इति गाथार्थः॥११॥ किश्च ते अन्नमन्नस्स तु गरहमाणा, अक्खंति भो समणा माहणा य। - सतो य अत्थी असतो य णत्थी, गरहामो दिट्ठीं ण गरहामो किंचि ॥ १२ ॥ व्याख्या-'ते' प्रावादुकाः 'अन्योऽन्यस्य' परस्सरेण तु स्वदर्शनस्थापनेन परदर्शनं गईमाणाः स्वदर्शनगुणान् कथयन्ति, ते श्रमणा ब्राह्मणाः स्वपक्षमेव समर्थयन्ति परकीयं च दूषयन्ति । तदेव पश्चार्द्धन दर्शयति-स्वकीये पक्षे स्थाप्यमानेऽस्ति पुण्यं तत्कार्य च स्वर्गापवर्गादिकमस्ति, ' अस्वत 'पराभ्युपगमाच नास्ति पुण्यादिकभित्येवं सर्वेऽपि तीर्थकाः द्वितीये श्रुत षष्ठाध्ययनेगर्हामावत्वं तथ्य कथने। V॥११७॥ Jain Education a l For Private & Personal Use Only Twww.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342