________________
सूयगडाङ्ग
सूत्रं दीपिकान्वितम् ।
इमं वयं तु तुमं पाउकुवं, पावाइणो गरिहसि सब एव ।
पावाइणो पुढो किट्टयंता, सयं सयं दिट्ठि करिति पाउ ॥ ११ ॥ व्याख्या-अहो आईकुमार ! — इमां' पूर्वोक्तां वाचं 'प्रादुष्कुर्वन् ' प्रकाशयन् सर्वान् प्रावादुकान् गर्हसि, यस्मात्सर्वेऽपि तीर्थका बीजोदकादिभोजिनोऽपि संसारोच्छेदनाय प्रवर्तन्ते, ते तु भवता नाभ्युपगम्यन्ते, ते तु प्रावादकाः पृथक् पृथक स्त्रीयां स्त्रीयां दृष्टिं प्रत्येकं स्वदर्शनं कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति, यदिवा श्लोकपश्चार्द्धमाककुमार आह-सर्वेऽपि प्रावादुका यथावस्थितं स्वदर्शनं प्रादुष्कुर्वन्ति, तत्प्रामाण्याच वयमपि स्वदर्शनाविर्भावनं कुर्मः, तथाहिअप्रासुकेन बीजोदकादिपरिभोगेन कर्मबन्ध एव केवलं, न संमारोच्छेदः, इतीदमस्मदीयं दर्शनं, एवं च व्यवस्थिते कात्रपरनिन्दा ? को वाऽऽत्मोत्कर्ष ? इति गाथार्थः॥११॥ किश्च
ते अन्नमन्नस्स तु गरहमाणा, अक्खंति भो समणा माहणा य। - सतो य अत्थी असतो य णत्थी, गरहामो दिट्ठीं ण गरहामो किंचि ॥ १२ ॥ व्याख्या-'ते' प्रावादुकाः 'अन्योऽन्यस्य' परस्सरेण तु स्वदर्शनस्थापनेन परदर्शनं गईमाणाः स्वदर्शनगुणान् कथयन्ति, ते श्रमणा ब्राह्मणाः स्वपक्षमेव समर्थयन्ति परकीयं च दूषयन्ति । तदेव पश्चार्द्धन दर्शयति-स्वकीये पक्षे स्थाप्यमानेऽस्ति पुण्यं तत्कार्य च स्वर्गापवर्गादिकमस्ति, ' अस्वत 'पराभ्युपगमाच नास्ति पुण्यादिकभित्येवं सर्वेऽपि तीर्थकाः
द्वितीये श्रुत षष्ठाध्ययनेगर्हामावत्वं तथ्य कथने।
V॥११७॥
Jain Education
a
l
For Private & Personal Use Only
Twww.jainelibrary.org