SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Jain Education I परस्परव्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थिततच्च प्ररूपणतो युक्तिविकलत्वादेकान्तदृष्टिं गर्हामो, नापरं किमपि गमः, सत्ये उक्ते न कापि ग X, एकान्तवादं निराकुर्मः, न परवादिनो, रागद्वेषविरहान्न कमपि गर्हाम इति गाथार्थः ॥ १२ ॥ एतदेव स्पष्टतरमाह न किंचि रूवेणऽभिघारयामो, सदिट्ठिमग्गं तु करेमो पाउं । इमे किट्टिए आरिएहि, अणुत्तरे सप्पुरिसेहिं अंजू ॥ १३ ॥ व्याख्या - भो गोशालक ! वयं न कञ्चन भ्रमणं ब्राह्मणं वा 'रूपेण ' जुगुष्पिताङ्गोपाङ्गोद्घट्टनेन जात्यादिमर्मप्रकाशनेन[वा] गर्हामः, केवलं स्वदृष्टिमार्ग प्रादुष्कर्मः स्वदर्शनं प्रकाशयामः, अथवाऽन्यदर्शनप्ररूपितं मागं दर्शयामः, यथा - “ ब्रह्मा लूशिरा हरिर्दृशि सरुकू पालुप्तशिनो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । स्वर्नाथोऽपि विसंस्थलः खलु वपुः संस्थैरुपस्थैः कृतः, सन्मार्गस्वलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥ १ ॥ " इत्यादि, एतच्च तैरेज स्वागमे पठ्यते, वयं तु श्रोतारः परं न कस्याप्यपवादं कुर्मः । अयमस्मदीयो मार्गः 'अनुत्तरः ' प्रधानः ' आय्यैः ' सर्वज्ञेः [ कीर्त्तितः ] प्ररूपितः अत एव ' अंजू ' इति व्यक्तो, निर्दोषत्वात्प्रकटः x" नेत्रैर्निरीक्ष्य बिलकण्टक कीटसर्पान् सम्यग्यथा व्रजत तान्परिहृत्य सर्वान् । श्रुति मार्गदृष्टिदोषान्, सम्यग् वि (चा) रयत कोऽत्र परापवादः १ ॥ १ ॥ " इति हर्ष ० For Private & Personal Use Only www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy