________________
सूयगडाङ्ग
द्वितीये
दीपिकान्वितम् ।
ध्ययने
॥ ११८
[ऋजुर्वा- अकुटिलः इति गाथार्थः॥ १३ ॥ पुनरपि स्वधर्मप्ररूपणायाह
उ8 अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा।
भूयाहिसंकाइ दुगुंछमाणा, णो गरहती बुसिमं किंचि लोए ॥१४॥ व्याख्या-ऊधिस्तिर्यगदिक्षु ये त्रमाः स्थावराश्च ये प्राणिनस्तेषां पालकः 'भृताभिशङ्कगा' प्राण्युपमर्दशङ्कया सर्व सावद्यमनुष्ठानं जुगुप्ममानो नैवापरं लोकं कश्चन 'गर्हते' निन्दति, कः? 'बुसिमं 'ति संयमवानिति, तदेवं रागद्वेषरहितस्य वस्तुस्वरूपाविर्भावने न काऽपि गर्दा भवति, तत्रापि चेद्गर्दा स्यात्तर्हि उष्णोऽग्निः शीतमुदकं विषं मारणात्मकमित्येवमादि न किश्चिद्वस्तुस्वरूपमाविर्भावनीयमिति गाथार्थः ॥ १४ ॥ स एवं गोशालकमतानुसारी त्रैराशिको निराकृतोऽपि पुनरन्येन प्रकारेणाह
आगंतऽगारे आरामऽगारे, समणे उभीते ण उवेति वासं ।
दक्खा हु संती बहवे मणूसा, ऊणातिरित्ता य लवालवा य ॥ १५ ॥ व्याख्या-भो आर्द्रकुमार ! भवत्सम्बन्धी योऽसौ तीर्थङ्कर स रागद्वेषमययुक्तः, तथाहि-असौ भवत्तीर्थकरः आगन्तागारं-कार्पटिकादीनां स्थानं धर्मशालाऽऽदिकं, आरामागारं उद्यानादिकं, तत्रासौ न वसति-न तत्र तिष्ठति भयेन । किं तत्र भयकारणं तत्र हागन्तुकाः बहवो 'दक्षाः' प्रभूतशास्त्रविशारदाः मनुष्यास्तिष्ठन्ति, तीतो न तत्र वासं कुरुते
भगवद्विषये गोशालकोक्तिः।
।११८॥
Jain Education intele
Far Private & Personal use Oh
MWWEjainelibrary.org