SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ यतस्ते स्वतोऽवमाः-हीना जात्या[दि]भिस्तैः पराजितस्य महाश्छायाभ्रंश इति भयेन न धर्मशालाऽऽदिषु वासं विधत्ते ।। कथम्भृतास्ते पण्डिताः ? लपन्तीति · लपाः' वाचालाः घोषितानेकतर्कविचित्रदण्डकाः, तथा-न[अ] लपा-मौनव्रतिका | निष्ठितयोगाः गुटिकादियुक्ता वा, यद्वशात्परवादिनामभिधेयविषया वागेव न प्रवर्ते, ततस्तद्भयेन युष्मत्तीर्थकर आगन्तागारादौ न बजतीति गाथार्थः ॥ १५॥ पुनरपि गोशालक एवाह मेहाविणो सिखियबुद्धिमंता, सुत्तेहि अत्थेहि य निच्छयन्ना । पुच्छिसु मा + अणगार अन्ने, इति संकमाणो न उवेति तत्थ ॥ १६ ॥ व्याख्या-भो आर्द्रकुमार ! भवत्सम्बन्धी तीर्थकत एवं जानाति-यद्यहं धर्मशालादिषु स्थास्यामि तदा तत्र बहवो विशारदा मेधाविनो-ग्रहणधारणासमर्थाः, आचार्यादेः समीपे गृहीतशिक्षाः, तथोत्पत्यादिचतुर्विधवुद्ध्युपेताः, तथा सूत्रार्थविषये विनिश्चयज्ञाः-यथावस्थितसूत्रार्थवेदिनस्ते चैवम्भूताः सूत्रार्थविषयं मा प्रश्नं कापुरित्येवं शङ्कमान-स्तेभ्यो बिभ्यन् धर्मशालादिषु न तिष्ठति । अहं तैः पृष्टः सन्नुत्तरं दातुमममर्थस्ततो मम छायानंशो भविष्यती भिया न तेषु मध्ये आयाति, तेभ्यो दूरत एव तिष्ठति, अत एवासौ न जुमार्गः, भययुक्तत्वात्तस्य, तथा म्लेच्छविषयं गत्वा न कदाचिद्धर्मदेशनां चकार, आर्यदेशेऽपि न सर्वत्रापि[ ? अपितु ]कुत्रचित् , अतो विषमदृष्टित्वाद्रागद्वेषवर्यसौ इति ॥ १६ ॥ + णे' इति पादपूविव्ययम् । For Private & Personal use only Jain Education in dww.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy