________________
सूयगडाङ्गसूत्रं
दीपिका
न्वितम् ।
॥ ११९ ॥
Jain Education
[ एतद् ] गोशालक मतं परिहर्तुकाम आईक आह
Pulsarahara बालकिञ्चा, रायाभिओगेण कुओ भएणं । वियागरेज्जा पसिणं नवावि, स कामकिच्चेणिह आरियाणं ।। १७ ।
व्याख्या– भो गोशालक सहि भगवान् प्रेक्षापूर्व कारितया नाकामकृत्यो भवति, एतावता अनिच्छाकारी न भवति । यो विमृश्यकारितया भवति सोऽनिष्टमपि स्वपरात्मनो निरर्थकमपि कृत्यं कुर्वीत, भगवाँस्तु सर्वज्ञः सर्वदर्शी परहितैकरतः [ कथं ] स्वपरयोर्निरुपकारकमेवं कुर्यात् । तथा न चासौ बालकृत्यः - बालवदनालोचितकारी न परानुरोधान्नाऽपि गौरवाद्धर्म्मदेशनादिकं विधत्ते, अपितु यदि कस्यचिद्भव्य सत्वस्योपकाराय तद्भाषितं भवति तेन प्रवृत्तिर्भवति, नान्यथा, तथा न राजाभियोगेनासौ धर्मदेशनादौ कथञ्चित्प्रवर्त्तते, ततः कुतस्तस्य भयेन प्रवृत्तिः १ स्यादित्येवं व्यवस्थिते केनचित् कचित्संशयकृतं प्रश्नं व्यागृणीयाद् यदि तस्योपकारो भवति, उपकारमन्तरेण न व्यागृणीयाद्, यदिवा अनुत्तरसुराणां मनः पर्यवज्ञानिनां च द्रव्यमनसैव तन्निर्णयसम्भवादतो न व्यागृणीयादित्युच्यते, यद्भवता कथ्यते - वीतरागोऽसौ किमिति aari करोतीति ? चेदित्याशङ्कयाह - ' स्वकामकृत्येन ' स्वेच्छा [ चारि] कारितयाऽसावपि तीर्थक्र नामकर्म्मणः क्षपणाय, न यथाकथञ्चिद्, अतोऽसावग्लान ' इह ' अस्मिन् संसारे आय्र्यक्षेत्रे चोपकारयोग्ये आय्र्याणामुपकाराय धर्मदेशनां व्यागृह्णीयादसाविति गाथार्थः ।। १७ ।। किञ्चान्यत्
For Private & Personal Use Only
द्वितीये
श्रुत०
षष्ठा
ध्ययने
यथोपकारं
तीर्थ
कृद्धर्मदेशना ।
॥ ११९ ॥
www.jainelibrary.org