________________
गंता व तत्था अदुवा अगंता, वियागरेज्जा समियासुपन्ने ।
अणारिया दंसणओ परित्ता, इति संकमाणो ण उवेति तत्थ ॥१८॥ व्याख्या-स हि भगवान् परहित करतो गत्वाऽपि विनेयासन, अथवाऽप्यगत्वा यथा यथा भव्यसच्चोपकारो भवति तथा तथाऽर्हन्तो धर्मदेशनां विदधति । उपकारे सति गत्वाऽपि कथयन्ति, असति तु स्थिता अपि न कथयन्त्यतो न तेषां रागद्वेषसम्भव इति । केवलमाशुप्रज्ञः समतया चक्रवर्तिद्रमकादिषु [पृष्टोऽ]पृष्टो वा धर्म व्यागृणीयात् । “जहा पुण्णस्स कत्थई, तहा तुच्छस्स कथइ” इति वचनान्न रागद्वेषवान् , यत्पुनरनार्यदेशमसौ न व्रजति तत्रेदमाह-अनार्याः दर्शनतोऽपि 'परि' समन्तादिता' गताः-प्रभ्रष्टा इति यावत् , तदेवमसौ भगवान् [तेषु] सम्यग्दर्शनमात्रमपि न भवतीत्या. शङ्कमानस्तत्र न व्रजतीति । यदिवा विपरीतदर्शना:-साम्प्रतक्षिणो ह्यनास्तेि हि वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते, न पारलोकिकमङ्गीकुर्वन्त्यतः सद्धर्मपराङ्मुखेषु तेषु भगवान याति, न पुनस्तद्वेषादिबुद्ध्येति । यदुच्यते त्वया-यथाऽनेकशास्त्रविशारदगुटिकादिसिद्धविद्यासिद्धादितीर्थिकपराभवभयेन न तत्समाजे गच्छतीत्येतदपि बालप्रलपितप्रायं, यतः-सर्वत्रस्य भगवतः समस्तैः प्रावादुर्मुखमप्यवलोकयितुं न शक्यते, वादस्तु दरोत्सादित एवेत्यतः कुतस्तत्परामवः ? भगवास्तु केवलालोकेन यत्रैव स्वपरोपकारं पश्यति तत्रैव गत्वापि धर्मदेशनां विधत्ते इति गाथार्थः ॥ १८ ॥
पुनरन्येन प्रकारेण गोशालक आह
Jain Education in
For Private & Personal Use Only
Arjwwjainelibrary.org