Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 310
________________ द्वितीये श्रत. अयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥१४ ॥ यान्ति, स्थावरादि नाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानि सर्वात्मना सत्वं परित्यज्य स्थावरत्वेनोदयं I यान्ति इति, एवं व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति । किश्चान्यत् 'थावराउयं च ण 'मित्यादि, यदा तदपि स्थावगयुष्कं परिक्षीणं भवति [ तथा ] स्थावरकायस्थितिश्च, सा जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतोऽनन्तकालमसङ्ख्येयपुद्गलपरावर्ता इति, ततस्तत्कायस्थितेरभावात्तदायुष्क परित्यज्य भूयः पारलौकिकत्वेन स्थावरकायस्थितेरभावात्रसत्वेन प्रत्यायान्ति । ' ते पाणा वि वुचंति' ते त्रससम्भारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, असा अप्युच्यन्ते, ते महाकाया योजनलक्षप्रमाणवपुर्विकुर्वणात , तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागरोपमायुष्कसद्भावात् । ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावस्कायव्यवस्थितानामपीति, यस्तु नागरिकदृष्टान्तो भवतोपन्यस्तोऽसावपि दृष्टान्तदाान्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलवासित्वमाविष्करोति, तथाहि-नगरधर्युक्तो नागरिका, स च मया न हन्तव्यः, इति प्रतिवां गृहीत्वा यदा तमेव व्यापादयति बहिःस्थितं पर्यायापन्नं तदा तस्य किल व्रतमङ्ग इति भवतः पक्षा, स च न घटते, यतो-यो हि नगरधम्मैरुपेतः स बहिःस्थितोऽपि नागरिक एव, अतः पर्यायापन इत्येतद्विशेषणं नोपपद्यते । अथ सामस्त्येन परित्यज्य नगरधानसौ वर्तते । ततस्तमेवेत्येतद्विशेषणं नोपपद्यते, तदेवमत्र त्रसः सर्वात्मना त्रसत्वं परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापनत्वात्रस एवासौ न भवति, त[य]था-नागरिक | पल्यां प्रविष्टस्तद्धम्मोपेतत्वात्पूर्वधर्मपरित्यागानागरिक एवासौ न भवति । पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह- सप्तमाध्ययने पर्यायापन्नविशे. पणस्यानुपपन्नत्वम्। ॥१४॥ Jain Education interilia Far Private & Personal use Oh ANGREJainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342