________________
द्वितीये
श्रत.
अयगडाङ्ग
सूत्रं दीपिकान्वितम् । ॥१४ ॥
यान्ति, स्थावरादि नाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानि सर्वात्मना सत्वं परित्यज्य स्थावरत्वेनोदयं I यान्ति इति, एवं व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति । किश्चान्यत् 'थावराउयं च ण 'मित्यादि, यदा तदपि स्थावगयुष्कं परिक्षीणं भवति [ तथा ] स्थावरकायस्थितिश्च, सा जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतोऽनन्तकालमसङ्ख्येयपुद्गलपरावर्ता इति, ततस्तत्कायस्थितेरभावात्तदायुष्क परित्यज्य भूयः पारलौकिकत्वेन स्थावरकायस्थितेरभावात्रसत्वेन प्रत्यायान्ति । ' ते पाणा वि वुचंति' ते त्रससम्भारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, असा अप्युच्यन्ते, ते महाकाया योजनलक्षप्रमाणवपुर्विकुर्वणात , तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागरोपमायुष्कसद्भावात् । ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावस्कायव्यवस्थितानामपीति, यस्तु नागरिकदृष्टान्तो भवतोपन्यस्तोऽसावपि दृष्टान्तदाान्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलवासित्वमाविष्करोति, तथाहि-नगरधर्युक्तो नागरिका, स च मया न हन्तव्यः, इति प्रतिवां गृहीत्वा यदा तमेव व्यापादयति बहिःस्थितं पर्यायापन्नं तदा तस्य किल व्रतमङ्ग इति भवतः पक्षा, स च न घटते, यतो-यो हि नगरधम्मैरुपेतः स बहिःस्थितोऽपि नागरिक एव, अतः पर्यायापन इत्येतद्विशेषणं नोपपद्यते । अथ सामस्त्येन परित्यज्य नगरधानसौ वर्तते । ततस्तमेवेत्येतद्विशेषणं नोपपद्यते, तदेवमत्र त्रसः सर्वात्मना त्रसत्वं परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापनत्वात्रस एवासौ न भवति, त[य]था-नागरिक | पल्यां प्रविष्टस्तद्धम्मोपेतत्वात्पूर्वधर्मपरित्यागानागरिक एवासौ न भवति । पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह-
सप्तमाध्ययने पर्यायापन्नविशे. पणस्यानुपपन्नत्वम्।
॥१४॥
Jain Education interilia
Far Private & Personal use Oh
ANGREJainelibrary.org