Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मेवम्भृतस्य वचसः सम्भव इति, तद्यथा-न खलु वयं शक्नुमः प्रव्रज्यां गृहीतुं, किन्तु वयं चतुर्दश्यष्ट मीपूर्णमासीषु सम्पूर्ण | पौषधं + सम्यगनुपालयन्तो विहरिष्यामस्तथा स्थूलप्राणातिपातमृषावादादत्तमैथुनपरिग्रहं प्रत्याख्यास्यामो 'द्विविध'मिति कृतकारितप्रकारद्वयन, अनुमतेः श्रावकस्याप्रतिषिद्धत्वात्तथा 'त्रिविधेन' मनसा वाचा कायेन च तथा 'मा' इति निषेधे, खलु निश्चितं पौषधस्थस्य पचनपाचनादिकं मम मा काष्टा, तथा परेण मा कारयत तत्राऽनुमतावपि सर्वथा यदसम्मवि तत्प्रत्याख्यास्यामः, ते एवं कृतप्रतिज्ञाः सन्तः श्रावकाः अभुक्त्वा अपीत्वा अस्नात्वा च पौषधोपेतत्वादासन्दी. पीठिकातः प्रत्याऽरुह्याऽवतीय सम्यक् पौषधं गृहीत्वा कालं कृतवन्तस्ते तथा प्रकारेण कृतकालाः सन्तः सम्यकृतकाला उच्यन्ते ? किंवा असम्यक् ? कथं च वक्तव्यं स्यात् ? इत्येवं पृटेनिग्रन्थैरवश्यमेवं वक्तव्यं स्यात्-सम्यकालगता इति एवं च कालगतानामवश्यं भावी देवलोके पुत्पादस्तदुत्पन्नाश्च ते त्रसा एव, ततश्च कथं निर्विषयता प्रत्याख्यानस्योपासकस्येति । एवं च बहवो जीवाः येषां श्रावकस्य प्रत्याख्यानं स्यात् , ते स्तोका येषु विषये न प्रत्याख्यानं, एवं श्रावकस्य महतस्त्रमा कायाद्विरतिरस्ति, त्रसरक्षणे महान् यत्नः श्रावकस्य विराधनायाश्च विरतिः। एवंविधस्य श्रावकस्य भवद्भिरुच्यते-नास्ति स कोऽपि पर्यायो यत्र श्रावकस्य प्राणातिपातप्रत्याख्यानं स्यात् , एतद्भवदचो न न्यायोपपत्रमिति । पुनरन्यथा श्रावकोद्देशेन प्रत्याख्यानस्य विषयं प्रदर्शयितुमाह
+" आहारशरीरसत्कारत्रमचर्याव्यापाररूपम् " इति वृत्तिकाराः ।
For Private & Personal Use Only
Jain Education interne
Mainelibrary.org

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342