Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सूयगडाङ्ग
सूत्र ०
दीपिका
न्वितम् ।
॥ १४८ ॥
Jain Education Int
यंति, ते पाणा विदुच्चति जाव नो णेयाउए भवति ।
व्याख्या - गौतमस्वाम्येव प्रत्याख्यानस्य विषयं दर्शयितुमाह - ' एके 'केचन मनुष्याः एवम्भूता भवन्ति, तद्यथाआरण्यकास्तीर्थिक विशेषास्तथा आवसथिकास्तीर्थिकविशेषा एव तथा ग्रामनिमन्त्रिकास्तथा 'कहूनुई रहस्सिय ' त्ति क्वचित्कार्ये रहस्यकाः एते सर्वेऽपि तीर्थिकविशेषास्ते च नो बहुसंयताः हस्तपादादिक्रियासु तथा ज्ञानावरणीया तत्वान्न बहुविरताः सर्वप्राणभूत जीव सच्वेभ्यस्तत्स्वरूपापरिज्ञानात्तद्वधादविरता इत्यर्थः । ते तीर्थिकविशेषा बहुसंयताः स्वतोऽविरताः आत्मना सत्यामृषाणि वाक्यान्येवमिति वक्ष्यमाणनीत्या 'त्रियुञ्जन्ति' प्रयुञ्जन्ति ' एवं विप्पडिवेदेति' + एवं विविधप्रकारेण परेषां प्र[ति] वेदयन्ति-ज्ञापयन्ति, तानि पुनरेवम्भूतानि वाक्यानि दर्शयति, तद्यथा-अहं न हन्तव्योऽन्ये पुनर्हन्तव्यास्तथाऽहं नाज्ञापयितव्योऽन्ये पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि ददति, ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूर्च्छिताः गृद्धा यावद्वर्षाणि चतुःपञ्चमानि पड्दशमानि वाऽतोऽप्यल्पतरं वा प्रभूततरं वा कालं भुक्त्वा उत्कट [ [ भोगा ]भोगभोग [स्ताँ]स्ते तथाभूताः किञ्चिदज्ञानतपःकारिणः कालमासे कालं कृत्वाऽन्यतरेषु आसुरीयेषु स्थानेषु किल्विषकेष्वसुरदेवाधमेषूपपत्तारो भवन्ति, यदिवा प्राण्युपधातोपदेशदायिनो भोगाभिलाषुकाः 'असूय्र्येषु' नित्यान्धकारेषु किल्बिषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते च देवा नारका वा त्रसत्वं न व्यभिचरन्ति तेषु च यद्यपि द्रव्यप्राणातिपातो न
+ " क्वचित्पाठोऽस्यायमर्थः " इतिवृत्तौ ।
For Private & Personal Use Only
द्वितीये
श्रुत०
सप्तमा
ध्ययने
प्रत्या
ख्यानस्य
विषय
दर्शनम् ।
॥ १४८ ॥
w.jainelibrary.org

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342