SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्र ० दीपिका न्वितम् । ॥ १४८ ॥ Jain Education Int यंति, ते पाणा विदुच्चति जाव नो णेयाउए भवति । व्याख्या - गौतमस्वाम्येव प्रत्याख्यानस्य विषयं दर्शयितुमाह - ' एके 'केचन मनुष्याः एवम्भूता भवन्ति, तद्यथाआरण्यकास्तीर्थिक विशेषास्तथा आवसथिकास्तीर्थिकविशेषा एव तथा ग्रामनिमन्त्रिकास्तथा 'कहूनुई रहस्सिय ' त्ति क्वचित्कार्ये रहस्यकाः एते सर्वेऽपि तीर्थिकविशेषास्ते च नो बहुसंयताः हस्तपादादिक्रियासु तथा ज्ञानावरणीया तत्वान्न बहुविरताः सर्वप्राणभूत जीव सच्वेभ्यस्तत्स्वरूपापरिज्ञानात्तद्वधादविरता इत्यर्थः । ते तीर्थिकविशेषा बहुसंयताः स्वतोऽविरताः आत्मना सत्यामृषाणि वाक्यान्येवमिति वक्ष्यमाणनीत्या 'त्रियुञ्जन्ति' प्रयुञ्जन्ति ' एवं विप्पडिवेदेति' + एवं विविधप्रकारेण परेषां प्र[ति] वेदयन्ति-ज्ञापयन्ति, तानि पुनरेवम्भूतानि वाक्यानि दर्शयति, तद्यथा-अहं न हन्तव्योऽन्ये पुनर्हन्तव्यास्तथाऽहं नाज्ञापयितव्योऽन्ये पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि ददति, ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूर्च्छिताः गृद्धा यावद्वर्षाणि चतुःपञ्चमानि पड्दशमानि वाऽतोऽप्यल्पतरं वा प्रभूततरं वा कालं भुक्त्वा उत्कट [ [ भोगा ]भोगभोग [स्ताँ]स्ते तथाभूताः किञ्चिदज्ञानतपःकारिणः कालमासे कालं कृत्वाऽन्यतरेषु आसुरीयेषु स्थानेषु किल्विषकेष्वसुरदेवाधमेषूपपत्तारो भवन्ति, यदिवा प्राण्युपधातोपदेशदायिनो भोगाभिलाषुकाः 'असूय्र्येषु' नित्यान्धकारेषु किल्बिषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते च देवा नारका वा त्रसत्वं न व्यभिचरन्ति तेषु च यद्यपि द्रव्यप्राणातिपातो न + " क्वचित्पाठोऽस्यायमर्थः " इतिवृत्तौ । For Private & Personal Use Only द्वितीये श्रुत० सप्तमा ध्ययने प्रत्या ख्यानस्य विषय दर्शनम् । ॥ १४८ ॥ w.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy