Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
व्याख्या-नागरिकदृष्टान्तेन त्रसमेव स्थावरत्वेनायात व्यापादयतोऽवश्यं प्रतिज्ञामङ्गः, यतस्तत एव मदुक्तया [वक्ष्यमाण]नीत्या प्रत्याख्यानं कुर्वतां सुप्रत्यारूपातं भवति । एवमेव च प्रत्याख्याश्यतां सुप्रत्याख्यातं भवति, एवं च प्रत्याख्यानं कुर्वन्तः कारयन्तश्च नातिचरन्ति स्वीयां प्रतिज्ञामित्येतद्दर्शयितुमाह___नन्नत्थ अभिओगेणं गाहावईचोरग्गहणविमोक्खणयाए तसभूतेहिं पाणेहिं निहाय दंडं, एवमेव सइ भासाए परकमे विजमाणे जे ते कोहा वा लोहा वा परं पञ्चक्खाविंति अयंपि नो उवएसे भे किं णेयाउए भवति? अवियाई आउसो गोयमा ! तुभपि एवं रोयति ?। [सू० ५] ___व्याख्या-तत्र गृहपतिः प्रत्याख्यानमेवं गृहाति, तद्यथा-त्रमभूतेषु वर्तमानकाले त्रमत्वेनोत्पन्नेषु 'दण्डः' प्राण्यु. पमईस्तन्निहाय-परित्यज्य प्रत्याख्यानं करोति, तदिह भूतत्वविशेषणात्स्यावरपर्यायापनवधेऽपि न प्रत्याख्यानमङ्गः, गृहपतिचौरविमोक्षणन्यायेन, एतदपि युक्तमेव सम्यगुक्तं, तदेतदपि त्रसकाये भूतत्वविशेषणमभ्युपगम्यता, एतदम्युपगमे हि यथा क्षीरविकृतिप्रत्याख्यायिनो दधिमक्षणेऽपि न प्रतिज्ञाविलोपस्तथा मभूताः सच्चा न हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसायामपि न प्रत्याख्यानातिचारः, तदेवं विद्यमाने सति 'भाषायाः' प्रत्याख्यानवाचः 'पराक्रमे 'भूतविशेषणादोषपरिहारसामध्यें एवं पूर्वोक्तया नीत्या मति दोषपरिहरणोपाये ये केचन क्रोधाद्वा लोमावा 'परं' श्रावकादिक भूतशम्दनिर्विशेषणमेव प्रत्याख्यापयन्ति तेषामेवं प्रत्याख्यानं ददतां मृपावादो भवति गृहनां चावश्यं भावी व्रतलोप इति,
Jain Education intmedial
For Privats & Personal use on
E
w
.jainelibrary.org

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342