Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education in
अस्यायमर्थः- रत्नपुरे नगरे रत्नशेखरो नाम राजा, तेन च परितुष्टेन रत्नमालाऽग्रमहिषी प्रमुखान्तःपुरस्य कौमुदी - | महोत्सवे नगरस्यान्तः स्वेच्छाप्रचारोऽनुज्ञातः । तदवगम्य नागरलोकेनापि राजाऽनुमत्या स्वकीपस्य स्त्रीजनस्य तथैव क्रीडनमनुमतं राज्ञा च नगरे सडिंडिमशन्द्रमा घोषितं तद्यथा - अस्तमनोपरि कौमुदीमहोत्सवे प्रवृते यः कश्चित्पुरुषो नगरमध्ये स्थितः प्रच्छन्नमुपलब्धश्च तदा तस्य शरीरनिग्रहं करिष्यामि न केनाप्यस्मिन्नर्थे विज्ञप्तिः कार्या नादं तं मोक्ष्यामि, इत्येवं व्यवस्थिते सत्येकस्य वणिजः षट्पुत्राः, ते च कौमुदीदिने क्रयविक्रयव्यग्रतया तावस्थिताः यावत्सूर्योऽस्तंगतः, तदनन्तरमेव स्थगितानि च नगरद्वाराणि तेषां च व्यग्रतया न निर्गमनमभूत् । ततस्ते भयसम्भ्रान्ताः नगरमध्य एवा. sseमानं गोपयित्वा स्थिताः । ततोऽतिक्रान्ते कौमुदी प्रचारे राज्ञाऽऽरक्षकाः समाहूयादिष्टाः, यथा सम्यग्निरूपयत यूयमंत्र कौमुदीप्रचारे नगरान्तः कश्चित्पुरुषो व्यवस्थित इति । तैरप्यारक्षकैः सम्यङ् निरूपयद्भिरुपलभ्य पणिक्पुत्रवृत्तान्तो राज्ञे निवेदितः । राज्ञाप्याज्ञामङ्गकुपितेन तेषां षण्णामपि वधः समादिष्टः । ततस्तत्पिता पुत्रवधसमाकर्णनगुरुशोकविह्वलोडकालापतित कुलक्षयोद्धान्तलोचनः किंकर्त्तव्यतामूढतया गणितविधेयाधेयविशेषो राजानमुपस्थितोऽवादीच्च गद्गदया गिरा, यथा मा कृथा देव ! कुलक्षयमस्माकं गृह्यतामिदमस्मदीयं कुलक्रमायातं स्वभुजोपार्जितं च प्रभूतं द्रविणजातं, मुच्यताममी षट्पुत्राः क्रियतामयमस्माकमनुग्रहः इत्येवमभिहितो राजा तद्वचनमाकर्ण्य विशेषं पुनरपि वधमादिदेश । असावपि वणि सर्वाङ्की समस्तमोचनानभिप्रायं राजानमवेत्य पञ्चानां मोचनं याचितवान्, तानप्यसौ राजा न मोक्तुमना इत्येवमवगम्य चतुर्मोचनकृते सादरं विज्ञप्तवान् तथाऽपि राजा तमनादृत्य कुपितवदन एव स्थितः । ततस्त्रयाणां विमोचने
२४
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342