________________
Jain Education in
अस्यायमर्थः- रत्नपुरे नगरे रत्नशेखरो नाम राजा, तेन च परितुष्टेन रत्नमालाऽग्रमहिषी प्रमुखान्तःपुरस्य कौमुदी - | महोत्सवे नगरस्यान्तः स्वेच्छाप्रचारोऽनुज्ञातः । तदवगम्य नागरलोकेनापि राजाऽनुमत्या स्वकीपस्य स्त्रीजनस्य तथैव क्रीडनमनुमतं राज्ञा च नगरे सडिंडिमशन्द्रमा घोषितं तद्यथा - अस्तमनोपरि कौमुदीमहोत्सवे प्रवृते यः कश्चित्पुरुषो नगरमध्ये स्थितः प्रच्छन्नमुपलब्धश्च तदा तस्य शरीरनिग्रहं करिष्यामि न केनाप्यस्मिन्नर्थे विज्ञप्तिः कार्या नादं तं मोक्ष्यामि, इत्येवं व्यवस्थिते सत्येकस्य वणिजः षट्पुत्राः, ते च कौमुदीदिने क्रयविक्रयव्यग्रतया तावस्थिताः यावत्सूर्योऽस्तंगतः, तदनन्तरमेव स्थगितानि च नगरद्वाराणि तेषां च व्यग्रतया न निर्गमनमभूत् । ततस्ते भयसम्भ्रान्ताः नगरमध्य एवा. sseमानं गोपयित्वा स्थिताः । ततोऽतिक्रान्ते कौमुदी प्रचारे राज्ञाऽऽरक्षकाः समाहूयादिष्टाः, यथा सम्यग्निरूपयत यूयमंत्र कौमुदीप्रचारे नगरान्तः कश्चित्पुरुषो व्यवस्थित इति । तैरप्यारक्षकैः सम्यङ् निरूपयद्भिरुपलभ्य पणिक्पुत्रवृत्तान्तो राज्ञे निवेदितः । राज्ञाप्याज्ञामङ्गकुपितेन तेषां षण्णामपि वधः समादिष्टः । ततस्तत्पिता पुत्रवधसमाकर्णनगुरुशोकविह्वलोडकालापतित कुलक्षयोद्धान्तलोचनः किंकर्त्तव्यतामूढतया गणितविधेयाधेयविशेषो राजानमुपस्थितोऽवादीच्च गद्गदया गिरा, यथा मा कृथा देव ! कुलक्षयमस्माकं गृह्यतामिदमस्मदीयं कुलक्रमायातं स्वभुजोपार्जितं च प्रभूतं द्रविणजातं, मुच्यताममी षट्पुत्राः क्रियतामयमस्माकमनुग्रहः इत्येवमभिहितो राजा तद्वचनमाकर्ण्य विशेषं पुनरपि वधमादिदेश । असावपि वणि सर्वाङ्की समस्तमोचनानभिप्रायं राजानमवेत्य पञ्चानां मोचनं याचितवान्, तानप्यसौ राजा न मोक्तुमना इत्येवमवगम्य चतुर्मोचनकृते सादरं विज्ञप्तवान् तथाऽपि राजा तमनादृत्य कुपितवदन एव स्थितः । ततस्त्रयाणां विमोचने
२४
For Private & Personal Use Only
www.jainelibrary.org