Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अपरानपि नाशयन्ति, क? 'घोरे' भयानके संसारसागरे 'अणोरपारे' अर्थागमागपरभागविवर्जिते अनाद्यनन्ते, इत्येवम्भते संसारार्णवे आत्मानं प्रक्षिपन्तीति गाथार्थः ॥ ४९ ॥ साम्प्रतं सम्यग्ज्ञानवतामुपदेष्टणां गुणानाविर्भावयन्नाह
लोयं विजाणंतिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता ।
धम्म समत्तं च कहंति जे उ, तारंति अप्पाण परं च तिण्णा ॥५०॥ व्याख्या-लोकं चतुर्दशरज्जात्मकं केवलालोकेन केवलिनो विविध-मनेकप्रकार जानन्ति, इह जगति प्रकर्षण जानाति प्रज्ञः पुण्यहेतुत्वाद्वा पुण्यं, तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं वर्म श्रुतचारित्ररूपं ये तु परहितैषिणः 'कथयन्ति' प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरं तीर्णाः परं च तारयन्ति सदुपदेशदानत इति, यथादेशकः -सम्यगुमार्गज्ञ आत्मानं परं च तदुपदेशवतिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केलिनोऽप्यात्मानं परं च संसारकान्तारान्निस्तारयन्तीति गाथार्थः ॥५०॥ पुनरघ्यार्द्र कुमार एवमाह
जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया ।
उदाहडं तं तु समं मतीए, अहाउसो विपरियासमेव ॥ ५१ ॥ व्याख्या-असर्वज्ञप्ररूपणमेवम्भूतं भवति, तद्यथा-ये केचित्संसारान्तर्वतिनोऽशुभकर्मणोपपेताः-समन्विताः 'गहितं'
Jain Education in
For Private & Personal use only
ANNEjainelibrary.org

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342