Book Title: Siddhant Lakshan Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 12
________________ दीधितिः १ વાચ્યત્વ પ્રમેયં વાચ્યત્વાત્ આ કેવલાન્વયિસાધ્યક સ્થલે પણ લક્ષણ સમન્વય થઈ જશે. તે આ પ્રમાણે હેતુનું અધિકરણ ઘટ લઈએ, તેમાં પ્રમેયત્વાભાવ ભલે ન મળે. પટાભાવાદિ તો મળવાના જ છે. અને તે પ્રતિયોગિવ્યધિકરણ પણ છે. અને તે અભાવની પ્રતિયોગિતાનો અવચ્છેદક પટત્વ છે. તેનાથી અવચ્છિન્ન પટ બને. અને તેનાથી ભિન્ન તરીકે પ્રમેયત્વ મળે. અને તે પ્રમેયત્વની સાથે સામાનાધિકરણ્ય વાચ્યત્વ હેતુમાં *મળી જવાથી અવ્યાપ્તિ ન આવે. ચન્દ્રશેખરીયા: હવે માત્ર દીદ્ધિતિ અને જાગદીશી એ બે ઉપર જ વિવરણ કરવાનું છે. दीधिति प्रतियोग्यसमानाधिकरणेति प्रतियोग्यसमानाधिकरणयद्वपविशिष्टसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदको यो धर्म्मस्तद्धर्म्मावच्छिन्नेन येन केनापि समं सामानाधिकरण्यं, तद्रूपविशिष्टस्य तद्धर्म्मावच्छिन्नयावन्निरूपिता व्याप्तिरित्यर्थः । ।१ ।। जगदीश वह्नित्वावच्छिन्नस्य सर्वस्यैव धूमादिमन्निष्ठाभावप्रतियोगितावच्छेदकीभूततत्तव्यक्तित्वावच्छिन्न त्वादव्याप्तिरित्यन्यथा व्याचष्टे, -* प्रतियोगितानवच्छेदको यो धर्म इति । । -- चन्द्रशेखरीयाः अथ सिद्धान्तलक्षणं अनुमानखण्डनिष्ठं संपूर्णम् । तस्य विवरणं दीधित्यां जागदीश्यां च वर्तते तथा च दीधिति-जागदीशीनिरूपितपदार्थानामेव निरूपणं ग्रन्थसमाप्तिं यावत् करिष्यतेऽस्माभिः इति ध्येयम् । ननु यथाश्रुते सिद्धान्तलक्षणेऽङ्गीकृते सति अव्याप्तिः अप्रतिबद्ध - प्रसरा एव, तथा हि- वह्निमान् धूमात् इति अत्र धूमाधिकरणे पर्वते महानसीयवह्नि अभावः, चत्वरीयवह्नि- अभाव:, अयोगोलकीयवह्नि- अभावश्च वर्तते । एवं धूमाधिकरणे महानसे पर्वतीयवह्नि - अभावोऽपि वर्तते । तथा च चालनीन्यायेन सर्वेषां वह्निनां अभावाः स्वप्रतियोगिव्यधिकरणाः हेत्वधिकरणवृत्तिनश्च मीलिताः । तेषां अभावानां प्रतियोगिता तत्तद्वह्निनिष्ठा । तत्प्रतियोगितावच्छेदकं तत्तद्वह्नित्वम्, तेन अवच्छिन्नाः सर्वे वह्नयः भवन्ति । तथा च प्रतियोगितावच्छेदकावच्छिन्नात् भिन्नः न कोऽपि साध्यः मीलति । एवं च अव्याप्तिः स्फुटैव इति चेत् सत्यम् तदर्थं एव दीधित्यां मूलोत्तलक्षणस्य परिष्कारः क्रियते । स च इत्थं - प्रतियोगिव्यधिकरण - यद्रूपविशिष्ट हेतु-समानाधिकरणाभाव प्रतियोगितावच्छेदक-भिन्नं यत् साध्यतावच्छेदकं, तदवच्छिन्नेन येन केनापि समं सामानाधिकरण्यम् तद्रूपविशिष्टस्य तद्धर्मावच्छिन्नैः यावद्भिः निरूपिता व्याप्तिः इति । वह्निमान् धूमात् इति अत्र महानसीयवह्न्यादिरूप ܀܀܀܀܀܀܀܀܀܀܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૩ ܀܀܀܀܀

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 252