Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 273
________________ [ पूर्वकृदन्ते उणादयः ] टीकाद्वयोपेता । (२५३) अतिशयन चलतीति चाचल्यते । चाचलांचके इति चाचलिः ॥ अतिशयेन पततीत पनीपत्यन्ते। पनीपतांचक्रे इति। वञ्चुस्रंसु इति प्राप्तस्य नीकोऽभावो निपात्यते। पापतिः ॥ “रामःसोमं पपिर्यज्ञे ददिर्गाश्चक्रिरद्भुतम् । याजकान्वबिराजह्निः पौण्डरीके महाद्विजान्॥"रामो यज्ञ सोमं पपाविति पपिः।अक्तादाविति वर्जनान्न कर्मणि षष्ठी । रामो यज्ञ गाः सुरभीः ददाविति ददिः। रामो यज्ञे अद्भुतमाश्चर्यं चकारोत चक्रिः। रामो यज्ञे याजकान् यज्ञकर्तृन् वव्रे इति वत्रिः। रामः पौण्डरीकनाम्नि यज्ञे महान्तश्च ते द्विजाश्च महाद्विजास्तान् आजहारोत आजहिः ॥ (तत्त्वदी०)-आदृत इति ॥ आच ऋच तत्तस्मात् । लिङ्घद्भावान्नेमिरित्यादावेत्वपूर्वलोपौ। जम्मिरिति ॥ गमां स्वर इत्यलोपः ॥ अथोणादयः। (क्रादेरुण ) कारुः। वातीति वायुः। पायुः। जायुः। मिनोतीति मायुः । स्वद आस्वादने स्वादुः । साधुः। आशुः । दीर्यते इति दारुः। सानुः॥ (सुबोधिनी)-अथोणादयः॥क्रादेरुण्॥ उण् प्रत्ययःस्यात्॥ उणूप्रत्ययमाहणित्वाद् वृद्धयादि। डुकृञ् करणे । करोतीति कारुः शिल्पी कारकश्च। तत्राद्ये योगरूढिदितीये तु योगमात्रमिति विवेकः। अत एव यौगिके तु धात्वर्थ प्रति कारकान्वयो भवत्येव । तथा च भट्टिः"राघवस्य ततः कार्य कारुर्वानरपुंगवः । सर्ववानरसेनानामाश्वागमनमादिशत्॥" इति ॥ "विश्वकर्मणि ना कारुस्त्रिषु कारकशिल्पिनोः।” इति मेदिनी ॥ 'कारुः शिल्पिान कारके' इति धरणिः॥ वा गतिगन्धनयोः । आतो युगिति युक् । वायुः॥पा पाने । पा रक्षणे च । पिवत्यनेन तैलादिकमिति पायुः। युक । 'गुदं त्वपानं पायुर्ना' इत्यमरः ॥ पाति रक्षतीति विग्रहे रक्षकोऽपि पायुः ॥ जि अभिभव । जयत्यभिभवात रोगान् इति जायुः औषधम् । 'भेषजौषधभैषज्यान्यगदो जायुः इत्यमरः॥ पुंलिङ्गसाहचर्याजायुः पुंसि ॥ डुमिज प्रक्षेपणे । मिनोति प्रक्षिपति दहे ऊष्माणमिति। मीनातिमिनातिदीङामित्यात्वम् युक् च । मायुः। मायुःपित्तं कफः श्लेष्मा इत्यमरः ॥ गां वाचं विकृतां मिनोति प्रक्षिपतीति गोमायुः शृगालः ॥ स्वद आस्वादन। स्वदते रोचत इति स्वादुः॥ साध संसिद्धौ। सानोति परकार्यमिति साधुः । स्वादुसाधू विशेष्यनिनौ ॥ अशूङ् व्याप्तौ । अश्नुते इत्याशुः । 'आशु/हिः पाटल: स्यात् । शघ्रिार्थोऽप्ययम् । तत्र विलम्बाभावमात्रपरत्वे क्लीवः । तद्विशिष्टद्रव्यपरत्वे तु त्रिलिङ्गः । अथ शघ्रिं त्वरितमित्युक्तम् । "क्लीवे शीघ्राद्यसत्त्वे स्यात्रिष्वेषां भेद्यगामि यत् ।” इत्यमरः ॥ दृ विदारणे। दीर्यते इति दारु । 'काष्ठं दार्विन्धनं त्वेधः' इत्यमरः ॥षण दाने । सानुः । 'स्नुः त्रस्थः सानुरास्त्रियाम्' इत्यमरः ॥

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372