Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi
________________
"(३३८)
सिद्धान्तचन्द्रिका ।
[उत्तरकृदन्तप्रक्रिया ]
(सुबोधिनी)-यन्तार्थासश्रन्थघट्टिवन्दिविदिइषिभ्यः स्त्रियां युः॥ “एभ्यो युः स्यात् ॥ अङोऽपवादः । युप्रत्ययमाह--युवोरेत्यनादेशः । डुकृञ् करण । ओरिति बिलोपः । कारणा ॥ हृञ् हरणे । हारयतीति दारणा ॥ अर्थ याच्ञायाम् । अर्थयतीति अर्थना ॥त्रीण्यपि ञ्यन्तोदाहरणानि ॥ अस उपवेशने । आसतेऽस्यामिति आसना । ध्यण्प्रत्यय तु आस्या ॥ श्रन्थ संदर्भ । श्रन्थना ॥ घट्ट चलने ॥ घट्टना । वदि अभिवादनस्तुत्योः । वन्दना॥अत्र विद्ल लाभे अयमेव गृह्यते । वंदना। ज्ञानार्थस्य विदेस्तु संवित्तिः ॥ अनिच्छार्थस्येषेरत्र ग्रहणम् । इष गतौ । अन्वेषणा।।
(तत्त्वदी०)-यन्ता० ॥ घट्ट चलने भ्वादिः । चुरादे तु ञ्यन्तत्वादेव सिद्धः ॥ विद्ल लाभार्थः । दाने तु विद चेतनादिष्विति चुरादिञ्यन्तस्यैव ॥ इस्तु गत्यर्थम्याभीक्ष्ण्यार्थस्य च • न विच्छार्थस्य ॥
(इञजादिभ्यः) आजिः । आटिः। आतिः॥ (सुबोधिनी)-इनजादिभ्यः॥ अजप्रभृतिभ्यो धातुभ्य इञ् स्यात् ॥ इञ्प्रत्ययमाह-त्रित्त्वाइद्धिः॥अज गत्यादौ। बाहुलकादजेवं भावो न । आजिः संग्रामः । अट गतौ । आटिः ॥ अत सातत्यगमने । आतिः ॥ (तत्त्वदी०)-इञजा०॥ नित्त्वाद्वद्धिः ॥आजिरिति ॥ वीभावस्तु न बाहुलकात् ।।
(विभाषाऽऽख्यानपरिप्रश्नयोरिञ्च)(आक्रोशे नज्यनिः) अकराणिः। अजननिः॥ ___(सुबोधिनी)-विभाषाऽऽख्यानपरिप्रश्नयोरिर च ॥ परिप्रश्ने आख्याने च गम्ये धातोरिञ् वा स्याझुण् च ॥ यथाप्राप्तमन्येऽपि प्रत्यया भवन्ति । कां त्वं कार कारिकां क्रियां कृत्यां कृति वाकार्टीः॥ एवं गणि गणिकां गणनाम् ॥ पाचिं • पाचिकां पचां पक्तिम् ॥ आख्यानेऽप्येवम् ॥
(इक् कृष्यादिभ्यः) कृषिः। गिरिः॥ ( सुबोधिनी) इक कृष्यादिभ्यः ॥ इक्प्रत्ययमाह-कित्त्वान्न गुणः। कृष विलेखने । कृषिः ॥ गृ निगरणे । ऋत इरितीर् । गिरिः ॥ कृ विक्षेपे । किरिः॥ आवश्यकाधमर्ययोणिनिः। अवश्यं कारी ॥ शतं द यी ॥ भविष्यदर्थे णिनिश्च । ग्रामं गामी ॥ ( तत्त्वदी०)-इक् ॥ कित्त्वान्न गुणः ॥ कृषिरिति । ऋत इर् । गिरिः ॥
(पूर्वकाले क्त्वा ) धातोः समानकर्तृके ध तो प्रयुज्यमाने पूर्वकालेऽर्थे क्त्वाप्रत्ययः॥
(सुबोधिनी)-पूर्वकाले क्त्वा॥समानकर्तृकयोधात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् ॥ पूर्वकाले इति बहुव्रीहिःक्त्वा अव्ययकृतो भाव इति भावे ।
Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372