Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 360
________________ (३४०) सिद्धान्तचन्द्रिका। [ उत्तरकृदन्तप्रक्रिया ] (सुबोधिनी)-नोपधात्थफान्ताद्वा॥ नोपधाद्धातोः थफान्ताच्च परः सेट क्त्वा वा कित्स्यात् ॥ ग्रन्थ संदर्भे । कित्त्वान्नो लोप इति नलोपः। ग्रथित्वा-ग्रन्थित्वा ॥ गुम्फ गुम्फने । कित्त्वपक्षे नलोपः गुफित्वा-गुम्फित्वा । नोपधात्किम् । कोथित्वा। रेफित्वा । कुथ पूतीभावे । रिफ कत्थनयुद्धनिन्दाहिंसादानेषु । इह इवर्णोपधादिति विकल्पोऽपि न भवति नोपधग्रहणसामर्थ्यात् ॥ - (अलखल्वोः प्रतिषेधे ) अलंभुक्त्वा । खलुकृत्वा ॥ (सुबोधिनी )-अलंखल्वोः प्रतिषेधे । प्रतिषेधे धात्वर्थे अलंखल्वोरुपपदयो. र्धातोः क्त्वा स्यात् ॥ भुज पालनादौ । अलंभुक्त्वा ॥ हुकृत करणे । कित इतीन । खलुकृत्वा ॥ अलंखल्वोः किम् । मा कार्षीत् । प्रतिषेधे किम् । अलङ्कारः ॥ ( उदितः क्त्वो वेट ) एषित्वा-इष्ट्वा । भ्रामेत्वा-भ्रान्त्वा ॥ __ (सुबोधिनी)-उदितः क्त्वो वेट् ॥ उदितो धात: परस्य क्त्वाप्रत्ययस्यड्डा स्यात् ॥ इषु इच्छायाम् । उदित्त्वाइट् । इट्पक्षे क्त्वा सडित्यकित्त्वाद् गुणः।एषित्वा। इडभावे ष्टुत्वम् । इष्ट्वा ॥ भ्रमु चलने । उदित्त्वादि । भ्रभित्वा । इडभावे अमान्तस्येति दीर्घः । भ्रान्त्वा ॥ (तत्त्वदी०)-उदित इति ॥ उदिद्यस्य स तथा तस्मात् ॥ (अदो जघुः) जग्ध्वा ॥ (सुबोधिनी)-अदो जघुः ॥ अद भक्षणे अस्य जयादेशः क्त्वाप्रत्यय । तथार्ध इति धः । खसे चपा इति घस्य कः । झवे जबा इति कस्य गः । जग्ध्वा ॥ (समासे क्यप) समासे सति पूर्वकाले क्र ॥समानकर्तृके धातो प्रयुज्यमाने ॥ संभृत्य करोति । प्रणम्य यच्छति । अनञ्पूर्व इत्येके । अकृत्वा॥ __ (सुबोधिनी)-समासे क्यप् ॥ अव्ययपूर्वपदेऽनसमासे समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्यप स्यात् । क्यप्प्रत्ययमाह-कित्त्वाद् गुणो न । पित्त्वात् ह्रस्वस्य पितीति तुक् । डुभृञ् धारणादौ । णम प्रहत्वे शब्दे च। सम्प्रशब्दौ नाम्नश्च कृतेति क्त्वान्तेन नित्यं समस्येते । संभृत्य । प्रणम्याअनज़ किम्। अकृत्वा॥ अव्ययपूर्वपदे इति किम् । परमकृत्वा ।मान्तानिटां धातूनां तु मस्य लोपो वा भवति क्यापिावनति तनोत्यादीनां तु लोपस्त्वनुदात्ततनामिति नित्यं जमस्य लोपः। आगत्यआगम्य । प्रणत्य-प्रणम्य । अन्यत्र तु नित्यम् । प्रहत्य । प्रमत्य । वितत्य ॥

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372