Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 369
________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयता । ( ३४९ ) ( द्वितीयान्ते विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः) गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन संबन्धो व्याप्तिः । क्रियायाः पौनःपुन्यमासेवा । गेहानुप्रवेशमास्ते । गेहंगेहमनुप्रवेशम् । एवं गेहानुप्रपातम् । गेहानुप्रपादम् । गेहानुस्कन्दम् । असमासे गेहस्य णमन्तस्य च पर्यायेण द्वित्वम् । गेहंगेहमनुप्रवेशम् । गेहमनुप्रवेशमनुप्रवेशम् ॥ (सुबोधिनी) - द्वितीयान्ते विशिपतिपदि स्कन्दां व्याप्यमानासेव्यमानयोः ॥ द्वितीयान्तोपपदेभ्यो विश्यादिभ्यो णम् स्याद्वयाप्तौ पौनःपुन्ये चार्थे || वीप्सायां पदं द्विरिति द्विः । क्रियासमभिहारे इति द्वित्वं तु न भवति समासनैव वीप्सासमभिहारयोरुक्तत्वात् । यद्यपि पौनःपुन्ये णमुक्त एव तथापि द्वितीया - तस्योपपदसंज्ञार्थमासेवायामिह पुनर्विधिः । समासे गेहानुप्रवेशम् । असमासे गेहं गेहमनुप्रवशमिति च ॥ ( क्रियान्तरेषु कालेषु द्वितीयान्तेषपपदेषु क्रियाव्यवधाने वर्तमानयोरस्यतितृषोः ) द्वयहात्यासं गाः पाययति । द्वहमत्यासम् । द्वयहतर्षम् । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यव धीयते । अद्य पाययित्वा द्वयहमतिक्रम्य पुनः पाययतीत्यर्थः ॥ • (सुबोधिनी ) - क्रियान्तरेषु कालेषु द्वितीयान्तेषूपपदेषु क्रियाव्यवधाने वर्तमानयोरस्यतितृषोः ॥ क्रियामन्तरयन्ति व्यवधानेनेति क्रियान्तरास्तेषु क्रियान्तरकालवाचिषु शब्देषु द्वितीयान्तेषूपपदेषु सत्सु क्रियाव्यवधाने वर्तमानाभ्यामसु क्षेषणे ञितृष पिपासायामाभ्यां णम् स्यात् ॥ (नानि द्वितीयान्ते आदिशिग्रहोः) नामादेशमाचष्टे । नामग्राहं कथयति ॥ (सुबोधिनी) - नानि द्वितीयान्ते आदिशिग्रहोः ॥ द्वितीयान्तनामशब्दोपपदाभ्यामाङ्पूर्वकः दिश अतिसर्जने ग्रह उपादाने आभ्यां णम् स्यात् ॥ ( अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमौ वा ) अयथाभिप्रेताख्यानं नाम अप्रियस्योच्चैः प्रियस्य नीचैः कथनम् । उच्चैःकृत्य उच्चैः कृत्वा उच्चैःकारं वाऽप्रियमाचष्टे । नीचैःकृत्य नीचैः कृत्वा नीचैःकारं वा प्रियं ब्रूते ॥

Loading...

Page Navigation
1 ... 367 368 369 370 371 372