Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 371
________________ [उत्तरकृदन्तप्रक्रिया ] . टीकाद्वयोपेता । (३५१) (सुबोधिनी) तूष्णींशब्दे भुवः क्त्वाणमौ ॥ तूष्णींशब्दे उपपदे भूधातोः क्त्वाणमौ स्तः॥ (अन्वक्छब्दे भुवः क्त्वाणमौ वा आनुकूल्ये गम्ये )अन्वग्भू. यास्ते-अन्वग्भूत्वा-अन्वग्भावम्। अग्रतः पार्वतः पृष्ठतो वाऽनुकूलो भूत्वा आस्त इत्यर्थः ॥ आनुकूल्ये किम् । अन्वग्भूत्वा तिष्ठति । पृष्ठतो भूत्वेत्यर्थः ॥ ( सुबोधिनी)-अन्वक्छब्दे भुवः क्त्वाणमा वा ॥ अन्वक्छब्द उपपदे भुवः क्वाणमौ वा स्तः॥ (वर्णात्कारः) अकारः। इकारः । वकारः (सुबोधिनी)-वर्णात्कारः ॥ वर्णनिर्देशे वाच्येऽक्षरात् कारप्रत्ययः स्यात् ।। निर्देशोऽनुकरणम् । कारप्रत्ययमाह-बहुलग्रहणमत्र कर्तव्यम् । तेन क्वचिन्न ॥ ( तत्त्वदी०)-वर्णात्कार इति ॥ प्रयोगस्थवर्णवाचिनः कारप्रत्ययः ॥ अतः 'अः केशवे विारेञ्चे वा' इत्यादौ प्रयोगस्थवर्णप्रतिपादकत्वाभावात्कारप्रत्ययो नेति वासुदेवेनोक्तं तन्न 'अकारो वासुदेवः स्यात्' इत्यादौ हसस्वरसमुदायस्योचार्यमाणत्वात्कारप्रत्ययो न स्यात् । अतोवर्णनिर्देश इत्यनुवर्त्य वर्णमात्रानुकरण इत्यर्थे अकारस्योच्चारणार्थत्वाद्वर्णमात्रस्यैवानुकार्यत्वात् । लघुभाष्ये तु न एव नकार इत्यादौ समुदायात्कारप्रत्ययाभावेन करोतेरुच्चारणार्थत्वात् करणं कार इति व्युत्पत्त्यैव सिद्धरेवमकारादिसिद्धौ वर्णात्कार इति वार्तिकं व्यर्थमित्युक्तम् । यत्तु कृष्णपण्डितेन अकारकरणं न सिध्येत । करोतेः पौनरुक्त्यादित्येतदर्थं वार्तिकमित्युक्तम् । तत्रेद वाच्यम् । अकारकरणमित्यत्र घान्तकरोतेरुचारणार्थत्वेन पौनरुक्त्याभावात् ॥ (रादिको वा) रेफः । रकारः॥ (सुबोधिनी)-रादिफो वा ॥ रकाराक्षराद्वा इफप्रत्ययः स्यात् ॥ ( लोकाच्छेषस्य सिद्धिः ) यथा मातरपितरादयः । इति श्रीरामाश्रमविरचितायां सिद्धान्तचन्द्रि कायामुत्तराध समाप्तम् ॥ (सुबोधिनी)-लोकाच्छेषस्य सिद्धिः।उक्तादन्यः शेषः।अत्रानुक्तस्य सिद्धिः साधनं लोकादन्यव्याकरणाज्ज्ञातव्यम् । यथा माता च पिता चेति मातरपितरौ मातरेति निपातनादिति ॥ श्रीमत्पाठकधुर्यभक्तिविनया नन्दन्ति सद्विद्यया नानाशास्त्रविचारजातपरमानन्दाः स्वभावोज्ज्वलाः ।

Loading...

Page Navigation
1 ... 369 370 371 372