Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi
________________
सिद्धान्तचन्द्रिका |
[ उत्तरकृदन्तप्रक्रिया ]
(तृतीयासप्तम्योरुपपदयोः संनिकर्षे धातोः) केशग्राहं युध्यन्ते केशेषु गृहीत्वा युध्यन्त इत्यर्थः । हस्तग्राहम् । हस्तेन गृहीत्वा ॥ (सुबोधिनी ) - तृतीयासप्तम्योरुपपदयोः संनिकर्षे धातोः ॥ तृतीयासप्तम्युपपदाद्धातोर्णम् स्यात् ॥ सन्निकर्षः संबन्धः ॥
(तृतीया सप्तम्योः प्रमाणे गम्ये धातोः ) बगुलोत्कर्ष खण्डिकां छिनत्ति । द्वयगुलेन द्रयङ्गुले वोत्कर्षम् ॥
( ३४८ )
(सुबोधिनी ) - तृतीयासप्तम्योः प्रमाणे गम्ये धातोः ॥ तृतीयासप्तम्युपपदाद्धातोर्णम् स्यात्प्रमाणे गम्ये ॥ द्वयोरगुल्योः समाहारो गुलम् । द्व्यङ्गुलोत्कर्ष खण्डिकांछिनत्ति। द्व्यङ्गुलेनोत्कृष्य परिच्छिद्येत्यर्थः । हर वः खण्डः खण्डिका ताम् ॥ ( अपादाने द्वितीयायां च त्वरायां गम्यमानायां धातोः ) शय्योत्थायं धावति । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ॥
(सुबोधिनी) - अपादाने द्वितीयायां च त्वरायां गम्यमानायां धातोः ॥ पञ्चमीद्वितीयान्तोपपदाद्धातोर्णम् त्वरायां गम्यमानायाम् ॥ शय्यात्थायं धावति । शय्याया उत्थाय धावतीत्यर्थः । आतो युगिति युक् । उदः स्थास्तम्भोरिति सलोपः । यष्टा युध्यन्ते । एवं खलु युद्धाय त्वरन्ते यष्ट्यादिकमपि गृहीत्वा धावन्ति नायुधं प्रतीक्षन्त इत्थः ॥
( अपगुरोर्वा णम्योतः ) गुरी उद्यमे । अरु पगारं युध्यन्ते अस्यपगोरं वा ॥
(सुबोधिनी ) - अपगुरोर्वा णम्योतः ॥ गुरी उद्यम इत्यस्योकारस्यात्वं वा स्याण्णमि प्रत्यये ॥ अस्यपगारं युध्यन्ते अस्यपगोरं वा । असिमुद्यम्येत्यर्थः ॥
( अध्रुवे स्वाङ्गे द्वितीयान्ते धातोः ) विक्षेपं कथयति ध्रुवं विक्षेपम् । अध्रुवे किम् । शिर उत्क्षिप्य कथयति । येन विना न जीवनं तद् ध्रुवम् ॥
(सुबोधिनी) - अध्रुवे स्वाङ्गे द्वितीयान्ते धातोः ॥ द्वितीयान्ताध्रुवस्वाङ्गोपपदाद्धातोर्णम् स्यात् ॥
(परिविश्यमाने द्वितीयान्ते स्वाड़े धातोः उरःप्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयित्वेत्यर्थः । 'उरोविदारं प्रतिचस्करे नखैः' ध्रुवार्थमिदम् ॥
(सुबोधिनी) - परिक्लिश्यमाने द्वितीयान्ते स्वाङ्गे धातोः ॥ सर्वतो बाध्य - माने स्वाङ्गे द्वितीयान्ते उपपदे सति धातोर्णम् स्यात् ॥ पिष्ल तंचूर्णने । उरः प्रतिषेषम् ॥
Page Navigation
1 ... 366 367 368 369 370 371 372