Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 366
________________ सिद्धान्तचन्द्रिका । [ उत्तरकृदन्तप्रक्रिया ] (सुबोधिनी)-हस्तार्थे करणे वर्तिग्रहोः॥ हस्ताकरणकारकोपपदाभ्यां वर्तिग्रहिभ्यां णम् स्यादनयोर्यथाविध्यनुप्रयोगश्च ॥ वृतु वर्तने । ञ्यन्तादस्माण्णमि कृते अरिति जिलोपः । हस्तवते वर्तयति। हस्तग्राहं गृह्णाति हस्तन गृहातीत्यर्थः॥ (धनार्थे करणे पुषः) धनपोषं पुष्णाति । स्वपोषम् । गोपोषम् ।। (सुबोधिनी)-धनार्थ करणे पुषः॥ धनस्य पर्यायेषु विशेषेषु चोपपदेषु पुष पुष्टावस्माण्णम् स्यादस्यानुप्रयोगश्च पूर्ववत् ॥ ( आधारे बन्धः ) चक्रबन्धं बध्नाति । चक्रे बनातीत्यर्थः॥ (सुबोधिनी)-आधारे बन्धः॥अधिकरणोपपदादध बन्धनेऽस्माण्णम् स्यादनुप्रयोगश्च ॥ (संज्ञायां बनातेः) क्रौञ्चबन्धं बद्धः । म यूरिकाबन्धं बद्धः॥अट्टालिकाबन्धं बद्धः । बन्धविशेषाणां संज्ञा एताः॥ (सुबोधिनी)-संज्ञायां बनातेः॥ संज्ञायां वाच्यायामस्माण्णम् स्यात् ॥ (क!ीवपुरुषयोर्नशिवहोः) जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः॥ ( सुबोधिनी)-कोर्जीवपुरुषयोर्नशिवहोः॥ कर्बर्थकजीवपुरुषापपदाभ्यां णश अदर्शने वह प्रापणे आभ्यां णम् स्याद्यथाविध्यनुयोगश्च ॥ (तत्त्वदी०) कोरिति ॥ जीवनाशमिति ॥ जीव ति जीवः । नाम्युपधादिति कः।। (ऊर्वे कर्तरि शुषिपूरोः) ऊर्ध्वशोषं शुष्यति। ऊर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः। ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव र्यत इत्यर्थः॥ ( मुबोधिनी)-ऊर्वे कर्तरि शुषिपूरोः ॥ ऊर्ध्व त्रुपपदाभ्यां शुष शाषणे पूरी आप्यायने आभ्यां णम् स्याद्यथाविध्यनयोरनुप्रयो पश्च ॥ ऊर्ध्वशोषं शुष्यति । वृक्षादिरूर्व एव तिष्ठञ्छुष्यतीत्यर्थः॥ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिवर्षोदकादिना पूर्णो भवतीत्यर्थः ॥ (उपमाने कर्मणि कर्तरि च ) घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः । अजकनाशं नष्टः । अजक इव नष्ट इत्यर्थः । (कषादिषु यथाविध्यनुप्रयोगः प्रयोक्तव्यः) कषादिषु यस्माण्णम् विहितः स एवानुप्रयोक्तव्यः। तथैवोदाहृतम् ॥ - (सुबोधिनी)-उपमाने कर्मणि कर्तरि च ॥पमानवाचके कर्तरि कर्मणि चोपपदे धातोर्णम् स्यात्तस्यैव धातोरनुप्रयोगश्च ॥

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372