Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 364
________________ (३४४) ___ सिद्धान्तचन्द्रिका। [ उत्तरकृदन्तप्रक्रिया ] (तत्त्वदी० )-सिद्धाप्रयोगे इति ॥ सिद्धः अप्रयोगोऽपि कृत्रो निष्प्रयोजनत्वात्प्रयोगानर्ह इत्यर्थः ॥ (कर्मणि दृशिविदोः साकल्ये) कन्यादर्श वरयति । सर्वाः कन्या इत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं तं सर्व भोजयतीत्यर्थः॥ (सुबोधिनी)-कर्मणि दृशिविदोः साकल्ये ॥ कर्मण्युपपदे दृशिविदोर्णम् स्यात् साकल्ये ॥ सकलस्य भावः साकल्यं तस्मिन् ॥ दशिर प्रेक्षणे । विद ज्ञान विद्ल लाभे विद विचारणे इति त्रयाणां ग्रहणम् ॥ । (यावति विन्दजीवोः) यावद्वेदं भुङ्क्ते । यावल्लभते तावदित्यर्थः ॥ यावज्जीवमधीते विप्रः॥ ( सुबोधिनी)-यावंति विन्दजीवोः ॥ यावच्छ दे उपपदे विद्ल लाभ जीव प्राणधारणे आभ्यां णम् स्यात् ॥ ___ (तत्त्वदी० )-यावदिति ॥ पूर्वकाल इतीह नास्ति । असाकल्यार्थमिदम् । साकल्ये दृशिविदोरित्येव सिद्धेः ॥ (कर्मणोश्चर्मोदरयोः पूरैः) चर्मपूरं स्तृणा ते । उदरपूरं भुङ्क्ते ॥ (सुबोधिनी )-कर्मणोश्चर्मोदरयोः पूरेः ॥ चम् दिरयोः कर्मणोरुपपदयोः पूरी आप्यायनेऽस्मात् णम् स्यात् ॥ चर्मपूरं स्तृणाति । उच्छादयतीत्यर्थः॥ _(कर्मण्युपपदे पूरेरूलोपश्च वा वर्षप्रमाणे गम्ये ) गोप्पदप्रं वृष्टो देवः।गोष्पदपूरं वा।मूषिकाबिलप्रं वृष्टोदेवः मूषिकाबिलपूरं वा॥ (सुबोधिनी)-कर्मण्युपपदे पूरेरूलोपश्च वा वर्षप्रमाणे गम्ये ॥णम् स्यात् समुदायन वर्षप्रमाणे वर्षस्य वृष्टेः प्रमाणं तस्मिन् गम्ये । 'वृष्टिर्वपम्' इत्यमरः ॥ (चैलार्थेषु कर्मसूपपदेषु क्नोपेवर्षप्रमाणे ) चैल कोपं वृष्टो देवः। वस्त्रकोपम् । वसनक्नोपम् ॥ (सुबोधिनी) चैलार्थेषु कर्ममूपपदेषु कनोपर्वर्षप्रमाणे ॥ चैलमों येषां तानि चैलार्थानि तेषु कर्मसपपदेषु क्रूयी शब्दे उन्दे च र न्तादस्मात् णम् स्यात् ।। क्रूय् धातोः प्रयोजके जिप्रत्यये कृते हीन्लीरीयीक्ष्मायीनामिति पुक् । यवयोर्वसे हकारे चेति यलोपः । पुकीति गुणः॥ क्नोपीति भ्यन्ताण्णम । रिति जिलोपः । चैलं क्नोपयत्यार्दीकरोतीति चैलक्नोपम् ॥

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372