Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 363
________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (३४३) स्यानुकरणम् । प्रकृतिवदनुक रणमित्यस्य वैकल्पिकत्वाद्विभक्तेलुक्न कृतः । अग्रेभो-. जम् अग्रेभुक्त्वा वा व्रजति । अन्येभ्यो भोक्तृभ्यः पूर्व भुक्त्वा व्रजतीत्यर्थः । पक्षे लडादयः। अग्रे भुते । पौनःपुन्ये तु नित्यमेव णम् क्त्वा च । अग्रेभोजभोजम् अग्रेभुक्त्वाभुक्त्वा वा व्रजति ॥ (कर्मण्याक्रोशे कृतः खमत्र ) चौरंकारमाक्रोशति । चौरशब्दमुच्चार्येत्यर्थः॥ __(मुबोधिनी)-कर्मण्य क्रोशे कृञःखमुञ् ॥ कर्मण्युपपदे आक्रोशे गम्ये करोतेः खमुञ् ॥ खमुञ्प्रत्य यमाह-खित्त्वात्विति पदस्यति मुम् । जित्त्वाइद्धिः । उकार उच्चारणार्यः। अब करोतिरुच्चारणेऽयें वर्तते । चौरंकारमाक्रोशति । चौरशब्दमुच्चार्येत्यर्थः॥ . ( तत्त्वदी०)-चौरंका मिति॥ खित्त्वान्मुम् । करोतिरत्रोचारणार्थः । चौरादयश्च शब्दप्रधानाः । चौर इति शब्दमुच्चार्य कोशतीत्यर्थः । नात्र चौरत्वं कारण किं त्वाक्रोशसंपादनार्थमचौरोऽपि चौर इत्युच्यते ॥ (व्यर्थेषु स्वादर्थे कृत्रोणम्) एककर्तृकयोः पूर्वकाले। पूर्वपदस्य मान्तत्वं निपात्यते । अस्वादुं स्वादुं कृत्वा भुङक्ते स्वादुंकारं भुङ्क्ते । संपन्नंकारम् । लवणंकारम् । संपन्नलवणशब्दो स्वादुपर्यायौ । क्त्वाऽपि । स्वाइंकृत्वा भुते॥ __ (सुबोधिनी)-व्यर्थेष स्वाद्वर्थे कृत्रो णम् ॥ स्वादुपर्यायेषूपपदेष्वेककर्तृकयोः पूर्वकाले करोतेर्णम् ग् यात्पूर्वपदस्य मान्तत्वं निपात्यते ॥ (तत्त्वदी०) व्यर्थेषु र वाद्वर्थे इति ॥ प्रकृतेन खमुत्रा सिद्धेऽप्यव्ययत्वान्नुम्न स्यादापश्च निवृत्तिः स्यादित्याद्यर्थ निपातनम् । अस्वाद्वीं स्वाद्वी कृत्वा यवागू भुङ्क्ते स्वादुङ्कारं यवागू भुङ्क्ते ।। ( यथातथयोरसूयाप्रतिवचने कृत्रः सिद्धाप्रयोगे णम् ) यथाकारमहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन । सिद्धाप्रयोगे किम् । सिद्धं कृत्वा भुड़क्ते ॥ ___ (सुबोधिनी)-यथातथयारसूयाप्रतिवचने कृञः सिद्धाप्रयोगे णम् ॥ यथातथयोरुपपदयोः करोते सिद्धाप्रयोगे णम् स्यात् । सिद्धः अप्रयोगोऽस्य एवंभत. श्वेत् कृञ् व्यर्थत्वात् प्रयोगानह इत्यर्थः। गुणेषु दोषारोपणमसूया असूयया प्रतिवर्चनं असूयाप्रतिवचनं तस्मिन् वाच्ये सति ॥ यथाकारमहं भोक्ष्ये तथाकारं भोक्ष्ये । यथा भोक्ष्येऽहं तथा भोक्ष्ये इत्यर्थः ॥

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372