Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 359
________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (३३९) भावोऽपि घनादाविव नेह सिद्धावस्थापन्नः किंतु साध्यावस्थापन्नः । स च धातुनैव लब्धः। क्त्वाप्रत्ययार्थभूता क्रिया च क्रियान्तरं प्रति विशेषणं भवति। क्त्वाप्रत्ययमाहकित्त्वान्न गुणः । क्त्वाद्यन्तमित्यव्ययत्वाद्विभक्तेलक॥ (तत्त्वदी०)-पूर्वकाले॥धातोरिति ॥ पूर्वकालक्रियावचनादित्यर्थः । समानकर्तृके धातौ प्रयुज्यमाने यस्माद्धातोः क्त्या विधीयते तत्क्रियाकर्ता यस्य धातोः कर्ता तस्मिन्प्रयुज्यमाने क्त्वाप्रत्ययो भवतीत्यर्थः ॥ स्नात्वा भुङ्क्त इत्यत्र स्नानभोजनक्रिययोरेक एव कर्ता । स्नानक्रियायाः पूर्वभावित्वेन साधातोः क्वा । यद्यपि शक्तिः कारक सा च प्रतिकियं भिद्यते तथापि शक्तिशक्तिमतोरभेदादेककर्तृकत्वमुक्तम् । एवमेककर्तृकाणामपि नत्वा स्तुत्वा ब्रजति । नतु चात्र सर्वपूर्वाया एव भविष्यति । यथाऽमीषां विप्राणां पूर्व आनीयतामित्युक्ते सर्वपूर्व एवानीयते । अत्र वदन्ति । आख्यातवाच्यायाः क्रियायाः प्राधान्यम् । तेन तामेव प्रति सर्वासां विशेषणत्वात्परस्परेण सम्बन्धः । नहि भिक्षुको भिक्षुकान्तरं याचते किंतु सर्व एव प्रभुमिति यथा तथा स्तुतेरिह व्रज्यपेक्ष पौर्वकाल्यमिति । पूर्व भुङ्क्ते ततो व्रजतीत्यत्र तु पूर्वशब्देनैव कालस्योक्तत्वान्न क्त्वाप्रत्ययः । आस्यते भोक्तुमित्यपि भवति।आसित्वा भोक्तुमिति न भवति अनभिधानात् । किं त्वासित्वा भुक्त इत्येव । (क्तवा सेट् किन्न) धातोः सेट् क्त्वा किन्न ॥ वर्तित्वा ।शयित्वा।। (सुबोधिनी)-क्तवा सेट किन्न ॥ धातोः परः सेट् क्त्वा किन्न स्यात् ॥ ऋतु वर्तन । कृत इतीट । वर्तित्वा ॥ शीङ् स्वमे । शयित्वा ।। सेट किम् । कृत्वा । कित इतीन ॥ ( मृडमृदगुधकुषक्लिशवदवसरुदविदमुषग्रहिभ्यः कित् ) मृडित्वा । मृदित्वा । गुधित्वा । कुषित्वा । क्लिशित्वा । उदित्वा । उषित्वा । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ॥ (सुबोधिनी)-मृडमृदगुधकुषक्तिशवदवसरुदविदमुषग्रहिभ्यः कित् ॥ एभ्यो धातुभ्यः सटुक्त्वा कित्॥मृड सुखे ।मृद क्षोदे। गुध परिवेष्टने गुध रोषे च ।कुष निष्कर्षे । क्लिश उपतापे दिवादिः। क्लिशू विवाधने त्यादिः । वद व्यक्तायां वाचि।क्स निवासे । रुदिर अश्रुविमोचन । विद ज्ञाने।मुष स्तेये । ग्रह उपादाने। मृड मृडित्वा ।मृद मृदित्वा ॥ गुध गुधित्वा ॥ कुष कुषित्वा ॥ क्लिश क्लिशित्वा । क्लियू ऊदित्त्वाइट् । क्लिशित्वा क्लिष्ट्व। ॥ वद। यजामिति संप्रसारणम्। उदित्वा ॥ वस । वसतिक्षुधारितीट् । यजामिति संप्रसारणम् । घसादरितिषः । उषित्वा रुदिर रुदित्वा ॥ विद् विदित्वा ।। मुष मुषित्वा ॥ ग्रह । ग्रहामिति संप्रसारणम् । ईटो ग्रहामिति दीर्घः । गृहीत्वा ॥.. (नोपधात्यफान्ताद्वा) प्रन्थित्वा-प्रथित्वा।गुम्फित्वा-गुफित्वा॥

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372