Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi
________________
[ उत्तरकृदन्तप्रक्रिया ]
काइयोपेता ।
( ३३७ )
(सुबोधिनी) - गुरोर्हसात् ॥ ईह चेष्टायाम् । ईहा ॥ ऊह वितर्के । ऊहा ॥ कुडि दाहे । कुण्डा ॥ गुरुमत इति किम् । भक्तिः ॥ हसान्तादिति किम् । नीतिः ॥
(तत्त्वदी ० ) - गुरोरिति ॥ सेन धातोर्विशेषणात्तदन्तलाभ इत्याह-- हसान्ता दिति । तथा च तादृश समुदायो न गुरुर्भवितुमर्हतीति गुरुपदं तद्वलक्षकमित्याशयेनाह - - गुरुमत इति ॥ प्रशंसायां रूप इत्यादिनिर्देशाद्विपर्ययोऽपि नाः शङ्कयः ॥
( प्रत्ययान्तात् ) स्त्रियामङ् ॥ चिकीर्षा । लोलूया । कण्डूया ।
पुत्रकाम्या |
(सुबोधिनी ) - प्रत्ययान्तात् ॥ प्रत्ययान्ताद्धातोरङ् प्रत्ययः स्यात्स्त्रियाम् ॥ डुकृञ् करणे । अस्मात् इच्छायामात्मन इति सप्रत्यये कृते 'वुः से' इतीन्न । 'नानिटि से' इति न गुणः । ' से दीर्घः' इति दीर्घे कृते ऋत इरितीर् । 'खोविं हसे' इति दीर्घः ॥ द्वित्वादि पूर्ववत् । स धातुरिनि धातुत्वादङ् । कर्तुमिच्छति चिकीर्षतीति चिकीर्षा ॥ लूं छेदने । अस्मादतिशयेह देरिति यङ् द्वित्वं च । यङीति पूर्वस्य गुणः । लोलूयते इत्यस्मादङ्प्रत्यये यत इत्यलोपः । अतिशयेन लुनाति लोलूयते इति लोलूया ॥ कण्डूञ् गात्रविघर्षणे । अस्मात कण्ड्वादिभ्य इति यक् । यगन्तादङि परे यत इत्यलोपः । कण्डयते इति कडया || पुत्रशब्दात्काम्यश्चेति काम्यप्रत्ययस्ततोऽङ् । यत इत्यलोपः । पुत्रमिच्छति पुत्रकाम्यतीति पुत्रकाम्या ॥
( तत्त्वदी० ) - प्रत्ययान्तात् ॥ कण्डूयेति कण्ड्डादियगान्तात्केवलात् क्तिरपि ॥ कण्डूतिः ॥
( धात्वर्थनिर्देशे वुण वक्तव्यः ) आशिका | शायिका ॥ (सुबोधिनी ) - धात्वर्थनिर्देशे गुण् वक्तव्यः ॥ आशिका | शायिका | काप्यत इतीत्वम् ॥
(इश्तिपौ धातुनिर्देशे ) पचिः। पचतिः ॥
( सुबोधिनी ) - इश्तियाँ धातुनिर्देशे ॥ इश्तिपौ प्रत्ययावाह - कित्त्वाद्गुणो न । शित्त्वाच्चतुर्वत् । डुपचवू पाके । पचिः ॥ अप कर्तरीत्यप् । पचतिः ॥ बहुलमित्यनुवृत्तेः क्वचिन्नैतौ भुवो वुमित्यादौ ॥
( तत्त्वदी०) - इतिपात्रिति ॥ निदेशो ऽनुकरणम् । बाहुलकत्वात्कचिन गुग्भ्य इत्यादौ ॥
( यन्तार्थासश्रन्थघट्टिवन्दिविदिइषिभ्यः स्त्रियां युः ) कारणा । हारणा । अर्थना । आसनां । श्रन्थना । घट्टना । वन्दना । वेदना । एषणा ॥
Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372