Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 336
________________ (३१६) सिद्धान्तचन्द्रिका। [पूर्वकृदन्ते उणादयः ] - ( नञि हन एह चासिः) अनेहाः, अनहसौ ॥ __ (सुबोधिनी)-नञि हन एह चासिः ॥ असिप्रत्ययमाह-नञ्युपपदे हन्तरसिप्रत्ययः स्याद्धातोरेहादेशश्च ॥ इकार उच्चारणार्थः। हन हिंसागत्योः । उशनसामिति सेर्डा ॥ अनेहाः कालः॥ (विधाञो वध च) वेधाः ॥ ( सुबोधिनी )-विधाञो वेध च॥ डुधाजू धारणादौ। विपूर्वादस्मादसिः स्यासोपसर्गस्य धातोर्वेधादेशश्च ॥ विदधातीति वेधाः। अत्वसोः साविति दर्षिः। 'वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि' इति मेदिनी ॥ (चन्द्रे माङो डित ) चन्द्रमाः ॥ (सुबोधिनी) चन्द्रे माङो डित् ॥ चन्द्रोपपदान्माडोऽसिः स्यात्स च डित्॥ डित्त्वाडिलोपः । माङ् माने । चन्द्रं रजतममृतं च मिमीतेऽसौ चन्द्रमाः । अत्वसोः साविति दीर्घः ॥ (पुरसि धाञः) पुरोधाः॥ (सुबोधिनी)-पुरसि धाञः॥ पुरस्शब्दे उपपद धाञोऽसिप्रत्ययः स्यात् ॥ डुधाञ् धारणादौ । पुरोधाः। 'पुरोधास्तु पुरोहितः' इत्यमरः॥ (उषः कित्) उषः॥ (सुबोधिनी )-उषः कित् ॥ उष दाहे अस्मादसिः स्यात्स च कित् ॥ कित्त्वान्न गुणः । उषः प्रभातम् ॥ (दमेरुनसिः) दमुनाः॥ (सुबोधिनी)-दमेरुनासिः॥ दमु उपशमे अस्मा दुनसिः स्यात् ॥ दमुनाः । 'सप्ताचिर्दमुनाः शुक्रः' इत्यमरः॥ (तत्त्वदी०)-दमेरु०॥ दमुनाः अग्निः ।। (वशेः कनसिः) उशना ॥ . (सुबोधिनी)-वशेः कनासिः ॥ वश कान्तावस्माकनासः स्यात् ॥ कित्त्वाद् अहामिति संप्रसारणम् । उशना । 'उशना भार्गवः कविः इत्यमरः ॥ (अगिरादयः ) अगि अङ्गिराः॥ ( बोधिनी)-अङ्गिरादयः ॥ असिप्रत्ययान्ता निपात्यन्ते ॥ अगि गतौ । असिप्रत्ययस्य इरुडागमो निपातनात् । अङ्गिराः ऋषिभेदः ॥ __ (अप्पूर्वः सतिः) अप्सराः॥

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372