Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 353
________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (३३३) ( सुबोधिनी)-कृवृषोर्वा क्यप्॥कर्तरि॥ डुकृञ् करणे वृषु सेचन आभ्यां वा क्यप् स्यात्॥करोतः क्यपोऽप्रतौ वृषस्तु ऋदुपधादिति नित्ये प्राप्ते विकल्पः । ह्रस्वस्य पितीति तुक् । कृत्यम् । वृष्य । क्यवभावपक्षे ध्यण । कार्यम् । वर्ण्यम् ॥ (पुष्यसिध्यौ नक्षत्रे ) पुष्णन्ति कार्याण्यस्मिन्निति पुष्यः । सिध्यन्ति कार्याग्यस्मित्रिति सिध्यः ॥ - (मुबोधिनी)-पुष्यसिध्यौ नक्षत्रे ॥ पुष पुष्टौ पिधु गत्याम् आभ्यामधिकरणेऽर्थे क्या निपात्यते॥ पुष्य । सिध्यः । नक्षत्रे किम् । पोषणम् । सेधनम् । साधनाधारयोरिति युट ॥ (राजम्यादयः) गज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः राजसूयः । सरत्याकाशे मूर्यः॥ (सुबोधिनी)-राजसूयाद यः॥ क्यबन्ताः शब्दा निपात्यन्त ॥ षुज अभिषवं । राज्ञा मोतव्य इति राजसूयः। अभियवद्वारा निष्पादयितव्य इत्यर्थः ॥ यद्वा राजा सूयते कण्डयतेऽत्रेति राजसूय । राजाऽत्र सोमः। अधिकरणे क्यप् । निपातनादीर्घः। अर्द्धर्चादित्वात् पुन्नपुंसकः॥ मृ गतौ । सरत्याकाशे इति सूर्यः । कर्तरि क्यप् । निपातनादुरादेशः । 'य्वोर्वि इसे' इति दीर्घः । यद्वा षू प्रेरणे तुदादिः । सुवति कर्मणि लोकं प्रेरयतीति सूर्यः । क्यपो रुट निपातनात् ॥ ( तत्त्वदी०)-राजसूया य इति ॥ लतात्मकः सोमो राजा स सूयते कण्ड्यतेऽत्रेति अधिकरणे क्यम् । निपातनादीर्घः । अर्द्धर्चादिरयम् ॥ मूर्य इति ॥ सरत्याकाशे सुवति कर्मणि लोक प्रेरयतीति वा ॥ (तव्यादयोऽहेऽर्थे विधौ शक्तौ च वक्तव्याः)दर्शना) द्रष्टव्यः। दर्शनीयः दृश्यः ॥ स्वाध्यायोऽध्येतव्यः । अध्ययनीयः अध्येयः॥ श्रोतव्यः॥ मन्तव्यः। वोटव्यः॥ तव्यादीनां कृत्यसंज्ञा ॥ (सुबोधिनी)-तव्यादयोऽहऽथै विधौ शक्तौ च वक्तव्याः ॥हशिर प्रेक्षणे अस्मात्तव्यप्रत्यये गुणे कृते राम झसे दृशामिति रछशषेति षत्वं ष्टुत्वम्। द्रष्टव्यः ॥ अनीयप्रत्यये तु दर्शनीयः। क्र. पि तु दृश्यः ॥ इङ अध्ययने अस्मात्तव्यप्रत्यये गुणे कृत अध्येतव्यः। अनीये तु अध्धयनीयः।यप्रत्यये अध्येयः॥ श्रु श्रवणे । श्रोतव्यः।। श्रवणीयः । क्यपि तु श्रुत्यः ॥ नन ज्ञाने । मन्तव्यः । मननीयः॥वह प्रापणे अस्मात्तव्यप्रत्यये हो ढ इति ढत्वे तथोर्ध इति धत्वं ष्टुत्वं ढि ढो लोप इति ढलोपपूर्वदीपों सह वहीरित्योत्वम् । वोढव्यः । वहनीयः ॥ कृत्यक्तखलर्थाः प्रत्ययाः भावकर्मणोर्भवन्ति। इति कृत्यप्रत्ययाः॥

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372