Book Title: Siddhant Chandrika Uttararddham
Author(s): Kshemraj Shrikrishnadas Shreshthi
Publisher: Kshemraj Shrikrishnadas Shreshthi

Previous | Next

Page 351
________________ [ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता। ( तत्त्वदी० )-ओरावश्यक इति ॥ अवश्यंभाव आवश्यकम् । अवश्यमष्टिलोपस्तद्धिते अव्ययत्वात् ॥ __ (ओदौतोर्यः स्वरवत् ) ओकारौकारयोर्निमित्तं यः प्रत्ययः स्वरवत् ॥ "लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि । समो वा हितततयोर्मासस्य पचि गुड्योः ॥" अवश्यं लाव्योऽवश्यलाव्यः। भोक्तुकामः । श्रोतुमना । सहितम्-संहितम् । सततम्-संततम् । मांसस्य पचनम् मांस्पचनम्-मांसपचनम् । मांसस्य पाकः मांस्पाकःमांसपाकः॥ . (सुबोधिनी)-ओदौतार्यः स्वरवत् ॥ यं प्रत्ययं निमित्तत्वेनाश्रित्य गुणेन यत्र ओकारो भवति वृद्धया च यत्र औकारो भवति स च प्रत्ययः स्वरवद्भवतीत्यर्थः॥ "लुम्पेदवश्यमः कृत्ये तुं काम मनसोरपि।समो वा हितततयोर्मासस्य पचि युड्घजोः" अवश्यमो निपातस्यान्त्यं लुत् लोपं कुर्यात् कृत्ये कृत्यसंज्ञके प्रत्यये परे । यथा अवश्यलाव्यः।।तुम्प्रत्ययस्यान्न्यं लुम्पेत् काममनसोः शब्दयोः परयोः । यथा भोक्तुकामः । श्रोतुमनाः॥समुपसर्गस्यान्त्यं वा लुम्पेत् हितततयोः शब्दयोः परयोः । यथा सहितं-संहितम्।सततं-संततम्॥ मांसशब्दस्यान्त्यं वा लुम्पेत् पचिप्रकृतिकयुड्घञ्प्रत्यययोः परयोः । यथा मांस्पचनं मांसपचनम् । मांस्पाकः । मांसपाकः॥ (तत्त्वदी०)-ओदौतो रिति ॥ द्योतितार्थस्यापि कचित्प्रयोगो दृश्यते लाघवं प्रत्पनादरादित्यत आह-अवश्यलाव्यम् । (हनो वधादेशो ये) वध्यः॥ ( सुबोधिनी )-हनो वधादेशो ये॥हन हिंसागत्योरस्मात् यप्रत्ययः स्यादातोर्वधादेशश्च । वध्यः । पक्षे यणपि । हनो घदिति घत् । घात्यः ॥ (ऋदपधात्क्यप् ) ऋकारोपधाद्धातोः क्यप् ॥ कृती कृत्यम् । वृत्यम् ॥ (सुबोधिनी)-ऋदुपधा क्यप् ॥ कित्त्वाद् गुणो न । पित्त्वं स्वरार्थम् । कृती छेदने । कृत्यम्॥ वृतु वर्तने । वृत्यम् ॥ वृधु वृद्धौ । वृध्यम्॥ तपरकरणं किम् । कृत संशब्दने । ध्यण कीय॑म् ।। (तत्त्वदी०) ऋदुपधािित ॥ तपरत्वाद्दी|पधान्न । तेन कृत इत्यस्य कीर्त्यम् ।। (कृपिनृत्योर्न) कल्प्यम् । घृत दीप्तौ । चय॑म् ॥ ( सुबोधिनी)-कृपिनृत्योर्न ॥आभ्यां क्यप् न स्यात्॥ध्यण् । कृपू सामर्थ्ये । कल्प्यम् ॥ नृती हिंसायाम् । चयम् ॥

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372